पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२७२
[ सर्गः १२
कुमारसंभवे


मन्दस्तत्रोत्सुकमुत्कण्ठितमत एव नन्दनमानन्दकरम् । 'नन्दिग्रहि-' (पा. ३।१।- १३४ ) इति ल्युः । तमात्मजं कुमारम्, 'हे पुत्र ! संयति सङ्ग्रामे देवानामिन्द्रा- दीनां विद्विषं विशेषेण द्वेष्टारं तारकं जहि' । 'हन्तेर्ज:' (पा. ६।४।३६ ) इति हनो जादेशः । इति निजगादोक्तवान् हि । रथोद्धतावृत्तम् ॥ ५७ ॥

 शासनं पशुपतेः स कुमारः स्वीचकार शिरसावनतेन ।
 सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः ॥ ५८ ॥

 शासनमिति ॥ स कुमारः कार्तिकेयः पशुपतेः पितुर्हरस्य शासनमाज्ञा- मवनतेन नम्रीकृतेन शिरसा स्वीचकार, स्वीयं चकारेत्यर्थः । 'कृभ्वम्तियोगे-' (पा. ५।४।५० ) इति च्चि: । 'अस्य च्चौ' (पा. ७ ४।३२ ) इतीकारः । 'च्चौ च' ( पा. ७।४।२६) इति दीर्घः । तथा हि-सर्वथैव सर्वप्रकारेणैव पितृभक्तौ जनक- श्रद्धायां रतानां सक्तानां खल्वेष एव परमो धर्मः यदाज्ञा झटित्येव स्वीकुर्वन्तीति । स्वागतावृत्तम् ॥ ५८ ।।

 असुरयुद्धविधौ विबुधेश्वरे पशुपतौ वदतीति तमात्मजम् ।
 गिरिजया मुमुदे सुतविक्रमे सति न नन्दति का खलु वीरसूः ५९

 असुरेति ॥ विबुधेश्वरे सकलदेवस्वामिनि पशुपतौ हरे । असुरस्य तारकस्य यो युद्धविधिः सङ्ग्रामकरणं तत्र, उक्तमिति शेषः । तमात्मजं पुत्रमिति वदति सति । गिरिजया पार्वत्या मुमुदे प्रसेदे । तथा हि-'खलु' निश्चये, सुतविक्रमे पुत्रपराक्रमे सति का वीरसूर्वीरप्रसूतिः स्त्री न नन्दति ? अपि तु सर्वा अपि नन्द- न्तीत्यर्थः । पुत्रविषये पराक्रमसत्तैव परममुत्कारणं वीरसूनां भवतीति भावः । द्रुतविलम्बितं वृत्तम्-'द्रुतविलम्बितमाह नभौ भरौ' इति लक्षणात् ॥ ५९ ॥

  सुरपरिवृढः प्रौढं वीरं कुमारमुमापते-
   र्बलवदमरारातिस्त्रीणां दृगञ्जनभञ्जनम् ।
  जगदभयदं सद्यः प्राप्य प्रमोदपरोऽभव-
   द्भुवमभिमते पूर्णे को वा मुदा न हि माद्यति ॥६० ॥

पाठा०-१ तु. २ विबुधेश्वरः. ३ वदति प्रियमात्मजम् ; वदति प्रियपुत्रकम् ;

वदति प्रियमातृकम्. ४ न किमु. ५ संयति. ६ दृगञ्जनभञ्जकम्.