पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३८-४४]
२६७
तारक पीडानिवारणेदेवेभ्य आश्वासनम्

श्लो० ३८-४४] तारक पीडानिवारणेदेवेभ्यः आश्वासनम् २६७

पराभवं तस्य महासुरस्य निषेद्धुमेकोऽहमलम्भविष्णुः । दावानलप्लोषविपत्तिमन्यो महाम्बुदात्किं हरते वनानाम् ॥ ४१ ॥

पराभवमिति ॥ भो देवाः! तस्य महासुरस्य तारकस्य तत्कर्तृकम् । 'कर्तृ- कर्मणोः ' ( पा. २।३।६५ ) इति कर्तरि षष्ठी । पराभवं पराजयम् , अर्थाद्यौष्मा- कीणमित्यर्थः । निषेद्धुं निवारयितुमहमेक एवालम्भविष्णुः, समर्थोऽस्मीत्यर्थः । तथा हि-वनानां संबन्धिनीं दावानलस्य दावानलकर्तृको यः प्लोषो दाहः स एव विपत्तिस्तां महाम्बुदान्महतो मेघादन्योऽपरः । 'अन्यारात्-' (पा. २।३।२९) इत्यादिना पञ्चमी । हरते किम् ? अपि तु नैवेति काक्वा व्याख्येयम् ॥ ४५ ॥

इतीरिते मन्मथमर्दनेन सुराः सुरेन्द्रप्रमुखा मुखेषु । सान्द्रप्रमोदाश्रुतरङ्गितेषु दधुः श्रियं सत्वरमाश्वसन्तः ॥ ४२ ॥

इतीति ॥ मन्मथमर्दनेन महेश्वरेण इतीत्थमीरित उक्ते सति सुरेन्द्रप्रमुखाः सुरा देवा आश्वसन्तो विश्वसन्तः सन्तः, उज्जीवन्त इति यावत् । सान्द्राणि सधनानि यानि प्रमोदाश्रूण्यानन्दबाष्पाणि तैस्तरङ्गिन्तेषु तरङ्गयुक्तेषु मुखेषु सत्वरं शीघ्रम् । महेश्वरवाक्यस्यात्यानन्दहेतुत्वाच्छैध्यम् । श्रियं शोभां दधुर्बभ्रुः ॥ ४२ ॥

ततो गिरीशस्य गिरां विरामे जगाद लब्धेऽवसरे सुरेन्द्रः। भवन्ति वाचोऽवसरे प्रयुक्ता ध्रुवं फलाविष्टमहोदयाय ॥ ४३ ॥

तत इति ॥ ततोऽनन्तरं गिरीशस्य हरस्य गिरां वाचां विरामे सति लब्धे प्राप्तेऽवसरे समये सुरेन्द्र इन्द्रो जगादोवाच । तथा हि-अवसरे काले प्रयुक्ताः प्रेरिताः, उक्ता इति यावत् । वाचो गिरः फलेनाविष्टः पूर्णो यो महोदयो महर्द्धि- स्तस्मै तदर्थं भवन्ति ध्रुवम् । क्रियाग्रहणात्संप्रदानत्वम् । तादर्थे वा चतुर्थी ॥४३॥

ज्ञानप्रदीपेन तमोपहेनाविनश्वरेणास्खलितप्रमेण । भूतं भवद्भावि च यञ्च किंचित्सर्वज्ञ ! सर्व तव गोचरं तत् ॥४४॥

पाठा०-१ निषेद्भुकामः. २ अरण्यस्य हर्तुं जलदात्प्रभुः किम्. ३ सान्द्रप्रमोदाः सुचिरस्मितेषु. ४ विताने. ५ लब्धावसरे. ६ सुरेशः. ७ प्रविस्पष्टफलोदयायः प्रभा- विष्टफलोदयाय. ८ सर्वत्र. ९ गोचरः.

-