२६६ कुमारसंभवे [ सर्गः १२
अनन्यसाधारणसिद्धमुच्चैस्तदैवतं धाम निकामरभ्यम् । कस्मादकस्मान्निरगाद्भवद्भ्यश्चिरार्जितं पुण्यमिवापचारात् ॥ ३८ ॥
अनन्येति ॥ हे देवाः ! अन्यसाधारणेनान्यदीयदेशतुल्यत्वेन सिद्ध साधि- रचितमित्यर्थः । तन्न भवतीति तथोक्तमत एव निकामं बहु रम्यं मनोहर- मुञ्चैर्महत्तत्प्रसिद्धं दैवतं धाम स्वर्गमकस्मात्सहसैव कस्माद्धेतोः भवद्भ्योऽप- चारात्पापाद्वैतोश्विरार्जितं बहुकालेन संपादितं पुण्यमिव निरगान्निर्गतम् ? 'तुम्हांपासून स्थल कसें जातें जहाले ?' इति लोकोक्तिरीतिरत्रानुसंधेया ॥ ३८ ॥
दिवौकसो! वो हृदयस्य कस्मात्तथाविधं धैर्यमहार्यमार्याः । अगादगाधस्य जलाशयस्य ग्रीष्मातितापादिवशादिवाम्भः ॥३९।।
दिवौकस इति ॥ हे दिवौकसो हे आर्याः ! तथाविधं तादृशमहार्यमनिर्वच- नीयं वो युष्माकं हृदयस्य मनसो धैर्यं करस्माद्वेतोर्गीष्मेण योऽतितापादिः संता- पादिस्तस्य वशाद्वेतोः । अगाधस्य जलाशयस्याम्भ इव । अगादनशत् , अन्यत्र शुष्यतीत्यर्थः । धैर्यं न हेयमिति भावः ॥ ३९ ॥
संप्रति स्वयमेव भयनिमित्तं दर्शयति सुराः! सुराधीशपुरःसराणां समीयुपां वः सममातुराणाम् । तद्ब्रूतं लोकत्रयजित्वरात्किं महासुरात्तारकतो विरुद्धम् ।। ४० ।।
सुरा इति ॥ हे सुराः! तत्तस्मादातुराणामत एव समं सह समीयुषामाग- तानां यथा सुराधीशपुरःसराणामिन्द्रप्रमुखानां वो युष्माकं लोकत्रयजित्वरात्रैलोक्य- जेतुस्तारकतस्तारकसंज्ञकान्महासुराद्विरुद्दं वैरं किम् ? स भवतां वैरी किमिति प्रश्नः । ब्रूत वदत ॥४०॥
पाठा०-१ सुदैवतम् । तदैव तम्. २ निकामकामम् ; निकामकाम्यम्. ३ यमाद्यैः. ४ अगाधम्. ५ अपवादात्. ६ विरुद्धतः. ७ ग्रीष्मातपापत्तिवशात्. ८ पुरारातिपुरो विवर्णम् ; पुरारातिपुरः सुवर्णम् ; सुनासीरपुरःसराणाम्. ९ समी- यिवांसं सममातुराणाम् ; समीहितं यत्सममातुराणाम् ; समीयुषां सामसमातुराणाम्.
१० ब्रूत लोकत्रयजित्वराः, भूतलोकत्रयजित्वराः. ११ महासुरप्रायकतः.