पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२६०
[ सर्गः १२
कुमारसंभवे

वैधव्यम् , मृतभर्तृकत्वमिति यावत् । तस्य हेतुं कारणम् , महासुरविनाशकमित्यर्थः । तथा पुरा पूर्वं स्मरस्य कामस्य प्लोषणं दाहं केल्यानायासेन करोतीति तथा । अन्यैः शिवातिरिक्तैरगृह्यं ग्रहीतुमशक्यं पिनाकं धनुः करेण पाणिना गृह्णन्तं दधानम् ॥ १९ ॥

 भद्रासनं काञ्चनपादपीठं महार्हमाणिक्यविभङ्गिचित्रम् ।
 अधिष्ठितं चन्द्रमरीचिगौरैरुद्वीज्यमानं चमरैर्गणाभ्याम् ॥ २० ॥

 भद्रासनमिति ॥ महार्हाणां बहुमूल्यानां माणिक्यानां विभङ्गिभी रचनाभिश्चित्रं विचित्रम् । भद्रं शुभमासनं पट्टादिनिर्मितं यत्र तादृशम् । बध्नन्तमिति पदमध्याहार्य भद्रासनमासनविशेषमिति केचिद्व्याचक्षते, तत्त्वध्याहारदोषाद्योगाभ्याससमयाभावेन तदसंभवाच्चोपेक्षणीयमिति । काञ्चनपादपीठं सौवर्णसिंहासनमधिष्ठितम्, तत्रोपविष्टमित्यर्थः । 'अधिशीस्थासाम्-' (पा. ११४।४६ ) इति कर्मत्वम् । पुनश्च । चन्द्रमरीचिवद्गौरॅर्विशदैश्चमरैः कृत्वा गणाभ्यां कर्तृभ्यामुद्वीज्यमानं प्रेङ्ख्यमानम् । कर्तृद्वित्वे चमरबहुत्वं प्रतिक्षणनूतनग्रहणात्संगमनीयम् २०

 शस्त्रास्त्रविद्याभ्यसनैकसक्ते सविस्मयैरेत्य गणैः सुदृष्टे ।
 नीराज्यमाने स्फटिकाचलेन सानन्दनिर्दिष्टदृशं कुमारे ॥ २१ ॥

 शस्त्रास्त्रेति ॥ शस्त्राणि धनुरादीनि, अस्त्राणि मोहनादीनि, तान्येव विद्यास्तासामभ्यसन एवैकं केवलं सक्तेऽनुरक्ते । तथा गणैः प्रमथप्रभृतिभिरेत्य तत्समीपं प्राप्य सविस्मयैः साश्चर्यॅः सद्भिः सुतरां दृष्टे, साभिलाषमवलोकित इत्यर्थः । तथा स्फटिकाचलेन कैलासेन, जङ्गमात्मकेन सतेति शेषः । नीराज्यमाने, आर्तिक्येनेति शेषः । एवंभूते कुमारे पुत्रे सानन्दं सामोदं निर्दिष्टा सन्निहिता दृग्दृष्टिर्येन तम् , सानन्दतया कुमारमवलोकयन्तमित्यर्थः ॥ २१ ॥

 तथाविधं शैलसुताधिनाथं पुलोमपुत्रीदयितो निरीक्ष्य ।
 आसीत्क्षणं क्षोभपरो नु कस्य मनो न हि क्षुभ्यति धामधाम्नि ॥२२॥

 तथाविधमिति ॥ पुलोमपुत्री पुलोमजा, शचीति यावत् । 'पुलोमजा शची-

पाठा०-१ महार्घ्यम्. २ अवसक्ते; एकसक्तैः. ३ सुदृष्टम्. ४ संवीज्यमाने.

५ अम्बिकयाञ्चलेन. ६ अथ कस्य; अत्र कस्य; अन्तकस्य.