पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४-९]
२५५
महेश्वरसदने सुरेन्द्रप्रवेशः

समीपं प्राप्य सुतरां गौरवेणादरेण स्वागतादिना प्रतोषयामास संतोषितवान् । अथ च स्वयं गत्वा कक्षायां हर्म्यप्रकोष्टे । 'कक्षा प्रकोष्ठे हार्म्यादेः काञ्च्यां मध्ये- भबन्धने' इत्यमरः । आहितः स्थापितो हेमदण्डः सुवर्णवेत्रमं येन तथोक्तः सन् । ईश्वरस्य, ईश्वरमित्यर्थः । संबन्धविवक्षायां षष्टी । शशंस कथयामास, 'ससुरो महेन्द्र आगतः' इति निवेदितवानित्यर्थः ॥ ६ ॥

 भूसंज्ञयानेन कृताभ्यनुज्ञः सुरेश्वरं तं जगदीश्वरेण ।
 प्रवेशयामास सुरैः पुरोगः समं स नन्दी सदनं सदस्य ॥७॥

 भूसंज्ञयेति ॥ अनेन जगतामीश्वरेण महेश्वरेण भ्रूसंज्ञया, भृकुटीचमत्कृति- संकेतेनेत्यर्थः । कृताभ्यनुज्ञः सुरेन्द्रागमनार्थंं कृतानुशासनः स नन्दी गणः पुरोगोऽग्रगामी सन् । तं सुरेश्वरमिन्द्रं सच्छोभनमस्य महेश्वरस्य सदनं गृहं सुरैः समं प्रवेशयामास, प्रवेशितवानित्यर्थः ॥ ७ ॥

 स चण्डिभृङ्गिप्रमुखैर्गरिष्ठेगणैरनेकैर्विविधस्वरूपैः ।
 अधिष्ठितं संसदि रत्नमय्यां सहस्रनेत्रः शिवमालुलोके ॥८॥

 स इति ॥ स सहस्रनेत्र इन्द्रो गरिष्ठॅरतिशयेन गुरुभिः । “प्रियस्थिर(पा. ६।४।१५७ ) इत्यादिना 'गुरु'शब्दस्य गरादेशः । अनेकैर्बहुभिर्विविधस्वरूपैर्नानाकृतिभिश्चण्डिभृङ्गिप्रमुखैर्गणै रत्नमय्यां रत्नप्रचुरायाम् । प्राचुर्ये मयट् । 'टिड्डा-' ('पा. ४।१।१५) इति ङीप् । संसदि सभायामधिष्टितमुपविष्टं शिवमालुलोके ददर्श । इह 'अधिशीङ्' (पा. ११४।४६ ) इत्याधारस्य कर्मत्वप्रसङ्गो दुर्निवारः । अत एव रत्नमयीं सभा तामिति प्रतिष्ठितमिति वा पठनीयम् । यथास्थितविन्यासे दूषणोद्धारं सुधियो विभावयन्त्विति ॥ ८ ॥

 अथ त्रयोदशभिर्महेश्वरं विशिनष्टि कपर्दमित्यादिभिः

 कपर्दमुद्बद्धमहीनमूर्धरत्नांशुभिर्भासुरमुल्लसद्भिः ।
 दधानमुच्चैस्तरमिधातोः सुमेरुशृङ्गस्य समत्वमाप्तम् ॥९॥

 तत्र कपर्दमिति ॥ किंभूतं शिवम् ? उद्बद्धं भुजंगमरज्जुभिर्दृढीकृतमुल्लसद्भिः

पाठा०-१ तेन. २ हरस्य. ३ अधिष्ठितायां यदि. ४ रत्नवत्याम्. ५ सहस्रलोकः, ६ कंदर्पम्.

७ ऊर्ध्वस्थमहाहि; उद्बन्धमहाहि.

-