पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५४
[ सर्गः १२
कुमारसंभवे

दित्यर्थः । स्यन्दनतो रथात् । पञ्चम्यास्तसिल । अवतीर्योत्तीर्य । शुचौ ग्रीष्मे पिपासया तृष्णया, तृषेति यावत् । आकुलित आतुरः पुरुषोऽम्भो यथा जलमिव पिनाकिनो हरस्यालयं निलयमुच्चचाल, उद्दिश्य चलति स्मेत्यर्थः । “निकाय्यनिलयालयाः' इत्यमरः । पिपासेति 'म प्रत्ययात्' (पा. ३।३।१०२) इत्यकारप्रत्यये टाप् । अत्रापि पूर्णोपमालंकारः। सामान्यधर्मस्त्वाकुलितत्वमित्याकुलितत्वे निमित्तभूतो पिपासोपप्लवौ । अनयोर्बिम्बप्रतिबिम्बभावेन

सादृश्यम् ॥ ३ ॥

 इतस्ततोऽथं प्रतिबिम्बभाजं विलोकमानः स्फटिकाद्रिभूमौ ।
 आत्मानमप्येकमनेकधा स व्रजन्विभोरास्पदमाससाद ॥ ४ ॥

 इतस्तत इति ॥ अथानन्तरं व्रजन्गच्छन्स इन्द्रः स्फटिकाद्रिः कैलासस्तस्य भूमौ पृथिव्यामितस्ततो यत्र तत्र प्रतिबिम्बभाजं प्रतिबिम्बितमेकमप्यात्मानं शरीरमनेकधाऽनेकसंख्यं विलोकमानः पश्यन्सन् । विभोर्महेश्वरस्यास्पदं स्थानमाससाद प्राप ॥४॥

 विचित्रचञ्चन्मणिभङ्गिसङ्गं सौवर्णदण्डं दधतातिचण्डम् ।
 स नन्दिनाधिष्ठितमध्यतिष्ठत्सौधाङ्गणद्वारमनङ्गशत्रोः ॥ ५॥

 विचित्रमिति ॥ स इन्द्रः विचित्रा अनेकवर्णाश्चञ्चन्तो दीप्यमाना ये मणयो रत्नानि तेषां तत्कर्मीका या भङ्गयो रचनाविशेषामस्तेषां सङ्गः संबन्धो यस्य, अनेकवर्णमणिखचितमित्यर्थः । तथाऽतिचण्डमतिभीषणं सौवर्णदण्डं सुवर्णमयवेत्रं दधता बिभ्रता नन्दिना गणेनाधिष्ठितं द्वारपालतयाऽधिश्रितमनङ्गशत्रोः शिवस्य सौधस्य राजसदनसंबन्धिनोऽङ्गणस्याजिरस्य । 'अङ्गणं चत्वराजिरे' इत्यमरः । द्वारं प्रतीहारम् । 'स्त्री द्वार्द्वारं प्रतीहारः' इत्यमरः । अध्यतिष्ठदधितस्थौ ।

'अधिशीङ्स्थासाम्-' (पा. १।४।४६ ) इति कर्मत्वम् । अन्तःप्रवेशे भगवदाज्ञानुपालनं

कुर्वन्द्वार एव तस्थावित्यर्थः ॥ ५

 ततः स कक्षाहितहेमदण्डो नन्दी सुरेन्द्रं प्रतिपद्य सद्यः ।
 प्रतोषयामास सुगौरवेण गत्वा शशंस स्वयमीश्वरस्य ॥६॥

 तत इति ॥ ततोऽनन्तरं स नन्दी गणः सुरेन्द्रमिन्द्रं सद्य भाशु प्रतिपद्य

पाठा०-१ अपि. २ सङ्गि. ३स्वकक्षा. ४ स गौरवेण. ५ सदोमण्डलम्.