पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २९-३५]
२४७
पुत्रजन्ममहोत्सवे मङ्गलगीतादीनि

 इतःपरं सप्तभिरुत्सवानेवाह-

 स्फुरन्मरीचिच्छुरिताम्बराणि संतानशाखिप्रसवाञ्चितानि ।
 उच्चिक्षिपुः काञ्चनतोरणानि गणा वराणि स्फटिकालयेषु ॥३२॥

 स्फुरदिति ॥ गणाः प्रमथाः स्फटिकालयेषु स्फटिकगृहेषु स्फुरन्त्यो भासमाना या मरीचयः किरणास्तामिश्छुरितं मिश्रीकृतमम्बरं यैस्तानि। संतानशाखिनां देववृक्षाणां प्रसवानि पत्राणि तैरञ्चितानि निर्मितानि वराणि श्रेष्ठानि काञ्चनं काञ्चनस्य विकारः काञ्चनं स्वर्णसूत्रं तदाधेयीभूतानि तोरणानि मालाविशेषानुच्चिक्षिपुरुच्चैश्चिक्षिपुः, बबन्धुरित्यर्थः ॥ ३२ ॥

 दिक्षु प्रसर्पस्तदधीश्वराणामथामराणामिव मध्यलोके ।
 महोत्सवं शंसितुमाहतोऽन्यैर्दध्वान धीरः पटहः पटीयान् ॥३३॥

 दिक्ष्विति ॥ अथ तोरणोत्क्षेपानन्तरम् । दिक्षु दशसु दिशासु प्रसर्पन्प्रसिद्धो भवन् , आत्मनिनादेनेति शेषः । गम्यमानार्थत्वादप्रयोगः । तासां दिशामधीश्वराणां दिक्पालानाममराणां देवानामिन्द्रादीनां संबन्धी पटीयान्समर्थः, घोरनिनाद इति शेषः । धीरो गम्भीरः पटहोऽन्यैर्भृत्यभूतैरमरैराहतस्ताडितः सन् । मध्यश्चासौ लोकश्च मध्यलोकः, भूलोक इत्यर्थः। तस्मिन् । महोत्सवम् । अत्रापि भवत्पुत्रजन्मनास्माकं महानुत्सवो जात इति शंसितुमिव कथयितुमिव । दध्वान ध्वनिं चकार। ध्वनिकरणे महोत्सवज्ञापनस्य फलत्वाभावेऽपि फलत्वकल्पनात्फलोत्प्रेक्षा ॥ ३३ ॥

 महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणाम् ।
 संभावितानां गिरिराजपुत्र्या गृहेऽभवन्मङ्गलगीतकानि ॥ ३४ ॥

 महेति ॥ तत्र महोत्सवे समागतानां प्राप्तानामत एव गृहे गिरिराजपुत्र्या भवान्या संभावितानां पूजितानाम् , सत्कृतानामित्यर्थः । गन्धर्वा विद्याधराश्च देवविशेषास्तेषां सुन्दरीणां स्त्रीणां स्त्रीकर्तृकाणि मङ्गलगीतकानि मङ्गलप्रयोजनगीतान्यभवन् , जातानीत्यर्थः ॥ ३४ ॥

 सुमङ्गलोपायनपात्रहस्तास्तं मातरो मातृवदभ्युपेताः ।
विधाय दूर्वाक्षतकानि मूर्ध्नि निन्युः स्वमङ्कं गिरिजातनूजम् ॥३५॥

पाठा०-१ विचिक्षिपुः, २ चलानि. ३ नाकिलोके. ४ धीरम्. ५ पूर्ण, ६ अभ्युपेत्य.

-