पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
[ सर्गः ११
कुमारसंभवे

वर्ती सर्गः सृष्टिः, पुत्र इति यावत् । स्वत्तोऽपरस्यास्त्वदन्यस्याः स्त्रियाः कथं केन प्रकारेण स्यात् ? तारकविनाशजनितकल्याणकरत्वे त्वज्जनितस्यैव शक्तिः, अतस्त- वैवायं पुत्र इति भावः ॥ १० ॥

 देवि! त्वमेवास्य निदानमास्से सर्गे जगन्मङ्गलगानहेतोः ।
 सत्यं त्वमेवेति विचारयस्व रत्नाकरे युज्यत एव रत्नम् ॥ ११ ॥

 देवीति ।। हे दवि प्रिये! जगतां मङ्गलानि मङ्गलकर्माणि गानानि गीतानि, मङ्गलप्रबन्धरूपाणीति यावत् । तेषां हेतोः कारणस्यास्य शिशोः सर्गे सृष्टौ, उत्पत्ताविति यावत् । त्वमेव निदानमादिकारणमास्स उपविशसि, असीत्यर्थः । 'निदानं त्वादिकारणम्' इत्यमरः । 'आसु उपवेशने' । लटो मध्यमपुरुषैक- वचनम् । नन्वहमेव कारणमित्यत्र किं मानमिति दृष्टान्तेन दर्शयति-त्वमेवेति सत्यम् । विचारयस्व । क्रिमिति तत् ? रत्नं रत्नाकरे समुद्र एव । अथ च रत्न- खनावेव युज्यते युक्तं भवति । 'खनिः स्त्रियामाकरः स्यात्' इति, 'रत्नाकरो जल- निधिः' इति चामरः ॥ ११ ॥

 अथ युग्मेनाह-

 अतः शृणुष्वावहितेन वृत्तं बीजं यदग्नौ निहितं मया तत् ।
 संक्रान्तमन्तस्त्रिदशापगायां ततोऽवगाहे सति कृत्तिकासु ॥१२॥
 गर्भत्वमाप्तं तदमोघमेतत्ताभिः शरस्तम्बमधि न्यधायि ।
 बभूव तत्रायमभूतपूर्वो महोत्सवोऽशेषचराचरस्य ॥ १३ ॥

 अत इति । गर्भत्वमिति ॥ हे प्रिये ! अतः कारणात् । अवहितेनावधानेन, सावधानतयेति यावत् । भावे निष्टा । वृत्तं वृत्तान्तं शृणुष्व शृणु । तथा हि-मया यद्बीजं वीर्यमग्नौ निहितं स्थापितं तद्बीजं त्रिदशापगायां गङ्गायामन्तर्मध्ये अवगाहे स्नाने सति संक्रान्तं लग्नम् । ततो गङ्गातः कृत्तिकासु च संक्रान्तं सत् गर्भत्वमाप्तं गर्भी भूतम् । अथ च ताभिः कृत्तिकाभिरमोघं तदेतच्छरस्तम्बमध्यधिशरस्तम्बम् । अधेर्व्यत्ययः प्रामादिक एव । न्यधायि निहितम् । धाञः कर्मणि लुङ् । तत्र शरस्तम्बेऽशेषचराचरस्य समस्तस्थावरजङ्गमस्य जगतोऽभूतपूर्वः पूर्वं भूतपूर्व-

पाठा०-१ आर्ये; आद्ये. २ स्वर्गे, ३ अत्र. ४ त्रिदिवापगायाम्. ५ विगाहे.

६ यत्.