पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५-१०]
२३९
कस्येदमपत्यमिति शिवगौर्योः संवादः

(पा. ३।१।१७) इत्यादिना करोत्यर्थे क्यङ् । अयं पुत्रो मम मत्संबन्धी-इति गङ्गा- वाक्यम् । अयं तव न, किंतु मम-इत्यग्निवाक्यम् । इत्थं मिथ्योभयोर्युवयोर्मध्ये न कस्यापि, किं त्वस्माकमिति सत्यम्-इति कृत्तिका वाक्यम् । इति परस्परं वैलक्ष्यं विलक्षणं यथा तथा किं किमर्थमुदाहरन्ति विवदन्ते ॥ ७ ॥

 एतेषु कस्येदमपत्यमीशाखिलत्रिलोकीतिलकायमानम् ।
 अन्यस्य कस्याप्यथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेषु ॥ ८ ॥

 एतेष्विति ॥ हे ईश! एतेषु स्वर्गापगादिषु मध्ये कस्येदमपत्यं पुत्रः ? किंभू- तम् ? अखिला या त्रिलोकी तत्र तिलकायमानं तिलक इवा चरत् । 'कर्तुः क्यङ् सलोपश्च' ( पा. ३।१।११ । इत्याचारार्थे क्यङ् । तत आत्मनेपदित्वाच्छानच् । अथाथवा । सिद्धा देवविशेषाः । उरगाः सर्पाः । राक्षसा निशाचराः । देवदैत्यगन्ध- र्वसहिता ये सिद्धोरगराक्षसास्तेषु मध्येऽन्यतमस्य कस्यापीति वदेत्यर्थः ॥ ८ ॥

 श्रुत्वेति वाक्यं हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः ।
 सान्द्रप्रमोदोदयसौख्यहेतुभूतं वचोऽवोचत चन्द्रचूडः ॥ ९॥

 श्रुत्वेतीति॥ चन्द्राचूडो हरः कौतूहलिन्याः श्रवणे कौतुकवत्या हृदयप्रियायाः पार्वत्या इति पूर्वोक्त वाक्यं वचः । 'वच परिभाषणं', 'ऋहलोर्ण्यत्' ( पा. ३।१।- १२४) इति ण्यत् । श्रुत्वा विमला स्मितश्रीर्यस्य, किंचितिहस्येत्यर्थः । सान्द्रः सधनः, बहुरिति यावत् । यः प्रमोदो हर्षः । 'प्रमोदामोदसंमदाः' इत्यमरः । तस्योदय उत्पत्तिस्तेन यत्सौख्यं तस्य हेतुभूतम् , तज्जनकमित्यर्थः । वचो वचन- मवोचतोक्तवान् ॥ ५ ॥

 जगत्रयीनन्दन एष वीरः प्रवीरमातुस्तव नन्दनोऽस्ति ।
 कल्याणि! कल्याणकरः सुराणां त्वत्तोऽपरस्याः कथमेष सर्गः ॥१०॥

 जगत्रयीति ॥ हे प्रिये ! जगत्रय्या नन्दन आनन्दकारकः । नन्द्यादित्वात् 'नन्दिग्रहि-' (पा. ३।१।१३४ ) इति ल्युः। वीरः पराक्रम्येष पुरोवर्ती शिशुः प्रवीरमातुः प्रकृष्टवीरजनन्यास्तव नन्दनः पुत्रोऽस्ति । ममैवायं नन्दन इत्यत्र किं मानमित्याशङ्क्याह-हे कल्याणि! सुराणामिन्द्रादीनां कल्याणकरः शर्मकार्येष पुरो-

पाठा०-१ वाचम्. २ जगत्रयानन्दन. ३ मातः. ४ अयम्. ५ परस्याः.