पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
[ सर्गः ११
कुमारसंभवे

 अत्रान्तर इति ॥ अत्रान्तरे कलहावसरे शिवः पर्वतराजपुत्र्या पार्वत्या समं सह स्वैरविहारो यथेच्छविहारस्तस्माद्धेतोः कारणान्मनोतिवेगेन चेतसोऽप्यतिशय- जवेन विमानेन नभोऽन्तरिक्षं विगाहमानोऽवलोढयंस्तत्र कलहस्थाने जगाम प्राप ॥४॥

 निसर्गवात्सल्यवशाद्विवृद्धचेतःप्रमोदौ गलदश्रुनेत्रौ ।
 अपश्यतां तं गिरिजागिरीशौ षडाननं पड्दिनजातमात्रम् ॥५॥

 निसर्गेति ॥ गिरिजागिरीशौ निसर्गेण स्वभावेन यद्वात्सल्य दयावत्वं तस्य वशाद्हेतोर्विवृद्ध्ः प्रवृद्धश्चेतसः प्रमोदो हर्षो ययोस्तथाभूतौ । अत एव गलद- श्रुणी प्रवहद्वाप्पे नेत्रे ययोम्तथाभूतौ सन्तौ । षड्दिनानि, जन्मदिनादारभ्ये- त्यर्थः । जातानि व्यतीतानि यस्य स षड्दिनजातः स एव षड्दिनजातमात्रस्तं षडाननं षण्मुखं तं कुमारमपश्यतां दृष्टवन्तौ ॥ ५॥

 अथाह देवी शशिखण्डमौलिं कोऽयं शिशुर्दिव्यवपुः पुरस्तात् ।
 कस्याथवा धन्यतमस्य पुंसो माताऽस्यं का भाग्यवतीषु धुर्या ॥६॥

 अथेति ॥ अथ दर्शनानन्तरं देवी भवानी । पुरस्तादयं कः ? अथवा कस्य धन्यतमस्य पुंसो दिव्यवपुरादितेयसदृशविग्रहः शिशुर्बालः ? पुत्र इति यावत् । अस्य शिशोर्माता जननी का या भाग्यवतीषु धुर्याऽग्रगण्या ? "धुरो यङकौ' (पा. ४।४।७७ ) इति यत् । एतन्मातृत्वादिति भावः । इत्येवं प्रश्नभूतं वचः शशि- खण्डमौलिं हरमाहोक्तवती । आहेति विभक्तिप्रतिरूपकमव्ययम् । तथा चोक्तम् --- 'अव्ययानामनन्त वाद्गणनाय न शक्यते । महाकविप्रयोगेषु यदि सिद्धात्परं च तत् ॥' इति ॥ ६ ॥

  स्वर्गापगासावनलोऽयमेताः षट् कृत्तिकाः किं कलहायमानाः ।
 पुत्रो ममायं न तवायमित्थं मिथ्येति वैलक्ष्यमुदाहरन्ति ।। ७ ॥

 स्वर्गापगेति ॥ किंच, असौ स्वर्गापगा गङ्गा । अयमनलोऽग्निः । एताः षट् कृत्तिकाः कलहायमानाः कलहं कुर्वाणाः सत्यः । 'शब्दवैरकलह-'

पाठा०-१ निसर्गवात्सल्यरसाद्विवृद्धचेतःप्रमोदौ; निसर्गवात्सल्यविवृद्धचेतःपृथु-

प्रमोदौ. २ तौ. ३ तद्दिन. ४ असौ. ५ च. ६ मिथः, ७ उदाहरन्ते.