पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
[ सर्गः १०
कुमारसंभवे

 मुक्तीति ॥ ताः कृत्तिका विमलैर्विगतमलैः। तथा मुक्तिर्मोक्षः सैव स्त्री तस्याः सङ्गः संबन्धः, प्राप्तिरिति यावत् । तत्र यद्दूत्यं दूतीभावः कर्म वा । तस्य ज्ञैः, ज्ञातृभिरित्यर्थः । येषां स्पर्शमात्रेण मुक्तिर्भवतीति भावः । तथाभूतैर्जलैः कृत्वा प्रक्षालितमला निवर्तितकल्मषाः सत्यस्तत्र गङ्गायां सस्नुः, स्नानं चक्रुरि- त्यर्थः । मलापकर्षस्नानानन्तरं शुद्धस्नानं क्रियत इति भावः । किंभूताः ? सुस्नाताः सु शोभनं विध्युक्तप्रकारकं स्नातं स्नानं यासां ताः। भावे निष्ठा । विध्युक्तप्रकारेण स्नानकर्त्र्य इत्यर्थः । पुनः किंभूताः ? तपसान्विताः, तपस्विन्य इत्यर्थः । 'ष्णा शौचे' कर्तरि लिट् ॥ ५२ ॥

  स्नात्वा तत्र सुलभ्यायां भाग्यैः परिपचेलिमैः ।
  चरितार्थं स्वमात्मानं वहु ता मेनिरे मुदा ।। ५३ ॥

 स्नात्वेति ॥ परिपचेलिमैः परिपक्वैः । 'तव्यत्तव्यानीयरः' (पा. ६।३।९६) इत्यत्र केलिमर उपसंख्यानात्पचतेः केलिमर् । भाग्यैर्दिष्टैर्निमित्तभूतैः सुलभ्यायां सुखेन लब्धुं शक्यायाम् । 'पोरदुपधात्' (पा. ३|१|९८ ) इति यत् । तथाभूतायां तत्र गङ्गायां स्नात्वा ताः कृत्तिकाः स्वं स्वकीयमात्मानं मुदा प्रीत्या बहु यथा तथा चरितार्थं पुरुषार्थकारिणं मेनिरेऽमन्यन्त । 'मनु अवबोधने' कर्तरि लट् ॥ ५३ ॥

  कृशानुरेतसो रेतस्तासामभिकलेवरम् ।
  अमोघं संचचाराथ सद्यो गङ्गावगाहनात् ॥ ५४ ॥

 कृशानुरेतस इति ॥ अथानन्तरं गङ्गावगाहनाद्धेतोरमोघं सफलं कृशानु- रेतसो हरस्य रेतो वीर्यं सद्यस्तत्कालं तासां कृत्तिकानामभिकलेवरं कलेवरे शरीर इत्यभिकलेवरम् , शरीरमध्य इत्यर्थः। संचचार संचक्राम, लग्नमिति यावत् । अत्र तृतीयायोगाभावात्समः परतोऽपि चरतेर्नात्मनेपदम् । 'समस्तृतीयायुक्तात्' (पा. १।३।५४ ) इति सौत्रनियमात् ॥ ५४ ॥

  रौद्रं सुदुर्धरं धाम दधाना दहनात्मकम् ।
  परितापमवापुस्ता मग्ना इव विषाम्बुधौ ॥ ५५ ॥

 रौद्रामिति ॥ दहनात्मकमग्निरूपमत एव सुतरां दुर्धरं दुःखेन धर्तुं शक्यं रौद्रं शैवं धाम तेजो दधानास्ताः कृत्तिका विषाम्बुधौ मग्ना इवेत्युत्प्रेक्षा । परिता-

पाठा०

-१ सुरभ्यायाम्. २ बहुलाः.