पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४५-५२]
२३३
सुरसरिदवलोकनेन कृत्तिकानामानन्दः

लो० ०४५-५२] सुरसरिदवलोकनेन कृत्तिकानामानन्दः क्याभ्यनन्दन्, आनन्दिता बभूवुरित्यर्थः । एतद्युक्तमेवेत्याह-एषा पीयूष- वाहिनी गङ्गा दृष्टा दर्शनगोचरीभूता सती किं पुरुषं नाभिनन्दयति ? अपि तु सर्वमेवेत्यर्थः । 'किम्' इति पाठे किं कुतः कारणान्नाभिनन्दयति मोदयति? अपि तु मोदयत्येवेत्यर्थः । अत एतदालोकन आनन्दो युक्त इति भावः ॥ ४८ ॥ चन्द्रचूडामणिर्देवो यामुद्वहति मूर्धनि । यस्या विलोकनं पुण्यं श्रद्दधुस्तां मुदा हृदि ॥ ४९ ॥ चन्द्रेति ॥ चन्द्रश्चूडामणिभूतो यस्य स देवो हरो मूर्धनि यामुद्वहति । यस्या विलोकनं पुण्यं पुण्यकारि, तां गङ्गां हृदि मनसि मुदा प्रीत्या श्रद्दधुः, श्रद्धितां चक्रुरित्यर्थः । गुणवत्सु श्रद्धाया औचित्यादिति भावः ॥ ४९ ॥ दिव्यां विष्णुपदीं देवीं निर्वाणपददेशिनीम् । निर्धूतकल्मषां मूर्ध्ना सुप्रह्वास्ता ववन्दिरे ॥ ५० ॥ दिव्यामिति ॥ निर्वाणपदस्य मोक्षपदस्य देशिनीं दात्रीम् । तथा निर्धूत- कल्मषां दूरीकृतजनकिल्बिषां दिव्यां स्वर्गीयाम् । 'द्यूप्रायपायुदक्प्रतीचो यत्' (पा. ४।२।१०१ ) इनि दिवो यत् । विष्णोः पदीं चरणसंबन्धिनीम् । 'गङ्गा विष्णुपदी' इत्यमरः । देवीं गङ्गां ताः कृत्तिकाः सुतरां प्रह्वा नताः सत्यो मूर्ध्ना ववन्दिरे प्रणेमुः ॥ ५० ॥ सौभाग्यैः खलु सुप्रापां मोक्षप्रतिभुवं सतीम् । भक्त्यात्र तुष्टुवुस्तां ताः श्रद्दधाना दिवो धुनीम् ।। ५१ ।। सौभाग्यैरिति ॥ अत्र ताः कृत्तिकाः श्रद्दधानाः सत्यः सौभाग्यैः शोभन- भाग्यैः सुखेन प्राप्तुं शक्यां मोक्षस्य प्रतिभुवं लग्नकां सती पतिव्रतां तां दिवो धुनी गङ्गां भक्त्या निमित्तेन तुष्टुवुः । भक्तिनिमित्तं स्तवनमित्यर्थः ॥ ५१ ॥ मुक्तिस्त्रीसङ्गदूत्यज्ञैस्तत्र ता विमलैर्जलैः । प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः ॥ ५२ ॥ पाठा०-१ तस्या विलोकनम् ; तस्यावलोकनम्. २ दिष्ट्या. ३ दर्शिनीम्. ४ निर्धू- तकल्मषाः. ५ भूत्वा. ६ ताम्. ७ खभाग्यैः. ८ संप्राप्ताम्. ९ सताम्. १० प्रतुष्टुवुः.

११ तास्तम्. १२ सिषेविरे. १३ दौत्यज्ञैः. १४ भाविमलैः. १५ तापसान्विताः.