पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
[ सर्गः १०
कुमारसंभवे

कल्लोला यस्यास्तथोक्तायाम् । विशेषणद्वयार्थस्य पूर्ववाक्यानन्तरभावितया पृथग्वाक्यत्वेन व्यपदेशे कर्तव्ये विशेषणतया वाक्यात्पूर्वोत्पादनं यत्तत्पूज्यतया व्यवस्थितम् , न तु चित्तपरितोषाय । धामसंक्रमणात्प्राग्विपद्धरणासंभवात् । "धृतः' इति पञ्चम्यन्तपाठे हविर्भुजो विशेषणम् । उत्तरंगत्वेन जलप्रकृतिविलसितं च स्वीकर्तव्यम् ॥ ३७॥

  कृशानुरेतसो रेतस्यादृते सरिता तया ।
  निश्चक्राम ततः सौख्यं हव्यवाहो वहन्बहु ॥ ३८ ॥

 कृशान्विति ॥ तया सरिता गङ्गया कृशानुरेतसो हरस्य रेतसि धामनि । 'कृशानुरेताः सर्वज्ञः' इत्यमरः । आदृते, आदरपूर्वकं गृहीते सतीत्यर्थः । हव्य- वाहोऽग्निः । णिजन्तात्पचाद्यच् । बहु सौख्यं वहन्सन् । ततो गङ्गातो निश्चक्राम बहिर्निःसृतः ॥ ३८॥

  मुधासारैरिवाम्भोभिरभिषिक्तो हुताशनः ।
  यथागतं जगामाथ परां निर्वृतिमादधत् ॥ ३९ ॥

 सुधासारैरिति ॥ अथानन्तरम् । सुधासारैरिवामृतमयैरिवाम्भोभिर्जलैर- भिषिक्तः स्नातोऽत एव परामत्युत्कटां निर्वृतिं सुखमादधद्बिभ्रद्धुताशनोऽग्निर्यथा- गतमागतमनतिक्रम्य जगाम गतवान् ॥ ३९॥

  सा सुदुर्विषहं गङ्गा धाम कामजितो महत् ।
  आदधाना परीतापमवाप व्योमवाहिनी ॥ ४० ॥

 सेति ॥ व्योम्नि वाहः प्रवाहोऽस्ति यस्यास्तथोक्ता सा गङ्गा कामजितो महेश्वरस्य महत्सुदुर्विषहम् । 'ईषद्दुःसुपु-' (पा. ३।३।१२६ ) इति कृच्छ्रार्थे खल् । धाम तेज आदधाना सती परीतापं संतापम् । 'उपसर्गस्य घञ्यमनुष्ये बहुलम्' (पा. ६।३।१२२ ) इति दीर्घः । अवाप, प्राप्तवतीत्यर्थः ॥ ४० ॥

  बहिरार्ता युगान्ताग्नेस्तप्तानीव शिखाशतैः ।
  हित्वोष्णानि जलान्यस्या निर्जग्मुर्जलजन्तवः ॥४१॥

 बहिरिति ॥ जलजन्तवो यादांस्यार्ताः सन्तो युगान्ताग्नेः प्रलयकालीनान-

पाठा०-१ आहृते. २ उदारैः. ३ परिषिक्तः. ४ कामम्. ५ पयांसि.