न्यधात् । 'अधि मद्विग्रहम्' इति वक्तव्ये मद्विग्रहमधीत्युक्तं महाकवि- प्रयोगान्न दोषाय ॥ १२ ॥
दुर्विषह्येण तेनाहं तेजसा दहनात्मना ।
निर्दग्धमात्मनो देहं दुर्वहं वोढुमक्षमः ॥ १३ ॥
दुर्विषेणेति ॥ दहनात्मनाग्निरूपेणात एव दुर्विषह्येण दुःखेन वोढुं शक्येन । 'शकिसहोश्च' (पा. ३।१|१९९ ) इति यत् । तेन तेजसा वीर्येण निर्दग्धमत एव दुर्वहमात्मनो देहं वोढुमहमक्षमोऽस्मि । यथाऽहं क्षमः स्यां तथैव त्वयाशु विधेयमिति व्यज्यते ॥ १३ ॥
रौद्रेण दह्यमानस्य महसातिमहीयसा ।
मम प्राणपरित्राणप्रगुणो भव वासव ! ।। १४ ।।
रौद्रेणेति ॥ हे वासव इन्द्र ! अतिमहीयसा रौद्रेण शांभवेन महसा तेजसा दह्यमानस्य मम प्राणानां परित्राणेन प्रगुणो विख्यातो भव । मम प्राणत्राणे भवतो महद्यशो भविष्यतीति भावः ॥ १४ ॥
इति श्रुत्वा वचो वह्नेः परितापोपशान्तये ।
हेतुं विचिन्तयामास मनसा विबुधेश्वरः ॥ १५ ॥
इतीति ॥ विबुधानामीश्वरो महेन्द्रो वह्नेरित्येवंभूतं वचः श्रुत्वा परिताप- स्योपशान्तये, अर्थात्तस्यैवेत्यर्थः । मनसा हेतुं निदानं विचिन्तयामास । कनोपाये- नास्य तापोपशान्तिर्भवेदिति विचारयामासेत्यर्थः ॥ १५॥
तेजोदग्धानि गात्राणि पाणिनास्य परामृशन् ।
किंचित्कृपीटयोनिं तं दिवस्पतिरभाषत ॥ १६ ॥
तेज इति ॥ दिवस्पतिरिन्द्रम् कृपीटयोनिमग्निं कर्मभूतं तेजसा शांभवेन धाम्ना दग्धानि प्लुष्टान्यस्याग्नेर्गात्राणि पाणिना परामृशन्स्पृशन्सन् । किंचिद्वक्ष्य- माणमभाषतोवाच । भाषतेर्द्विकर्मकत्वं हि ब्रुञर्थनिबद्धत्वात् । 'अर्थबन्धनेयं संज्ञा' इति वार्तिकात् । 'कृपीटयोनिर्ज्वलनः' इत्यमरः । 'शतमन्युर्दिवस्पतिः'
इति च ॥ १६ ॥