पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
[ सर्गः १०
कुमारसंभवे

  वचोभिर्मधुरैः सार्थैर्विनम्रेण मया स्तुतः ।
  प्रीतिमानभवद्देवः स्तोत्रं कस्य न तुष्टये ॥९॥

 वचोभिरिति ॥ मया विनम्रेण सता सार्थैः साभिप्रायार्थैरत एव मधुरैर्मनो- हरैर्वचोभिः करणैः । स्तुत ईडितो वो हरः प्रीतिमानभवत् , मदुपरि प्रससादेत्यर्थः । तथा हि ‌- स्तोत्रं स्तुतिः। 'स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । कस्य तुष्टये संतोषाय न भवति ? अपि तु सर्वस्यापीत्यर्थः । अत्र सामान्येन विशेष- समर्थनरूपोऽर्थान्तरन्यासोऽलंकारः ॥ ९ ॥

  शरण्यः सकलत्राता मामत्रायत शंकरः ।
  क्रोधाग्नेर्बलतो ग्रासात्त्रासतो दुर्निवारतः ॥ १० ॥

 शरण्य इति ॥ शरण्यः शरणे साधुः । 'तत्र साधुः' (पा. ४।४।९८ ) इति एव सकलत्राता सर्वेषां रक्षिता । एवंभूतः शंकरो हरो ज्वलतो दीप्यमानस्य दुर्निवारतो दुःखेन निवारयितुं शक्यस्य क्रोधाग्नेः क्रोधाग्निकर्तृकाद्ग्रासाद्यस्त्रासो भयं तस्मान्मामत्रायत ररक्ष । 'त्रैङ् पालने' लङ् ॥ १० ॥

  परिहृत्य परीरम्भरभसं दुहितुर्गिरेः ।
  कामकेलिरसोत्सेकाद्व्रीडया विरराम सः ॥ ११ ॥

 परिहृतेति ॥ स हरो गिरेर्दुहितुः पार्वत्याः संबन्धिनं परीरम्भरभसं परिहृत्योत्सृज्य व्रीडया हेतुभूतया कामस्य केले रसस्योत्सेकान्मानसस्यासक्तेविरराम विरतोऽभूत् । 'व्यापरिभ्यो रमः' ( पा. १।३।८३ ) इति परस्मैपदम् ॥ ११ ॥

  रङ्गभङ्गच्युतं रेतस्तदामोघं सुदुर्वहम् ।
  त्रिजगद्दाहकं सद्यो मद्विग्रहमधि न्यधात् ॥ १२ ॥

 रङ्गेति ॥ तदा स हरो रङ्गस्य कामकेलेर्भङ्गादन्तरायात् । अस्य हेतोः क्रोधाभिव्यञ्जकत्वे न दोषः । च्युतं पतितममोघं सफलं त्रिजगद्दाहकमत एव सुदुर्वहं सुतरां दुःखेन वोढुं शक्यं रेतः शुक्र मद्विग्रहमधि, मम शरीर इत्यर्थः । सद्यो

पाठा०-१ सान्त्वैः. २ ग्रासत्रासतः. ३ परिरम्भं रभसात्. ४ तदमोघम्.

५ सुदुर्धरम्. ६ अभिन्यधात्.