पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१८
[ सर्गः ९
कुमारसंभवे

नोपदिष्टमार्गतो गमनं विधेयमिति प्रदर्शितमार्गा सती कलं मधुरं यथा तथा चचाल, मन्थरां गतिमकार्षीदित्यर्थः ॥ ४७ ॥

 चलच्छिखाग्रो विकटाङ्गभङ्गः सुदन्तुरः शुक्लसुतीक्ष्णतुण्डः ।
 भ्रुवोपदिष्टः स तु शङ्करेण तस्या विनोदाय ननर्त भृङ्गी ॥४८॥

 चलदिति ॥ चलन्ति शिखाग्राणि चूडाग्राणि यस्य । 'शिखा शाखा बर्हि- चूडालाङ्गलिक्यग्रमात्रके । चूडामात्रे शिखायां च ज्वालायां प्रपदेऽपि च ॥' इनि मेदिनी । तथा विकटाः कराला अङ्गभङ्गा नृत्यचेष्टाविशेषा यस्य । 'विकटो वज्रवाराह्यां त्रिषु रुचिरकालयोः' इति मेदिनी । तथा सुदन्तुर उन्नतः । 'दन्तुर- स्तून्नते त्रिषु ' इति मेदिनी । 'दन्त उन्नत उरच्' (पा. ५।२।१०६ ) इत्युरच्प्रत्ययः । शुक्लं शुभ्रं सुनीक्ष्णं सुतरां निग्मं तुण्डं मुखं यस्य । एतादृशः स प्रसिद्धो भृङ्गी गणविशेषस्तु तस्या भवान्या विनोदायानन्दाय शंकरेण भ्रुवोपदिष्टः प्रेरितः सन्ननर्न ॥ ४८॥

 कण्ठस्थलीलोलकपालमाला दंष्ट्राकरालाननमभ्यनृत्यत् ।
 प्रीतेन तेन प्रभुणा नियुक्ता काली कलत्रस्य मुदे प्रियस्य ॥४९॥

 कण्ठस्थलीति ॥ कण्ठस्य स्थल्यां लोला कपालानां नृकपालानां माला यस्याः । तथा दंष्ट्राभिः करालं भयानकमाननं बिभ्रती काली कालिका । 'काली तु कालिका क्षीरकीटेषु परिकीर्तिता' इनि मेदिनी । प्रियस्य कलवस्य पार्वत्या मुदे प्रीत्यै नेन प्रभुणा हरेण प्रीतेन सता नियुक्ता प्रेरिता सती । अभ्यनृत्यन्ननर्त। नृत्यतेर्देवादिकात्कर्तरि लङ् ॥ ४९ ॥

 भयङ्करौ तौ विकटं नदन्तौ विलोक्य बाला भयविह्वलाङ्गी ।
 सरागमुत्सङ्गमनङ्गशत्रोर्गाढं प्रसह्य स्वयमालिलिङ्ग ॥ ५० ॥

 भयङ्कराविति ॥ विकटं करालं यथा तथा नदन्तौ शब्दायमानौ अत एव भयङ्करौ तौ कालीभृङ्गिणौ विलोक्य भयेन विह्वलमङ्गं यस्याः सा बाला पार्वती प्रसह्य बलात्कारेण स्वयमात्मनैवानङ्गशत्रोर्हरस्योत्सङ्गं सरागं सानुरागं यथा तथा ।

पाठा०-१ चलद्विषाणः, २ सदन्तुरः. ३ शुष्क सुतीक्ष्णतुण्डः. ४ हि

५ प्रणुन्ना. ६ नटन्तौ. ७ सरंगम्.