पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ४२-४७]
२१७
कैलासे हर-पार्वतीक्रीडावर्णनम्

तथोक्ता मण्डनस्य विलासस्य यो दर्पण आदर्शस्तस्य श्रीरिव श्रीर्यस्य तथोक्तः । अत्र 'श्री'शब्दस्य रूढत्वेन शोभेति संज्ञावाचकत्वात् 'संज्ञापूरण्योश्च' (पा. ३|३|:- ३८) इति पुंवद्भावो न । सुधानिधिश्चन्द्रो यस्य कैलासस्य मूर्धनि शृङ्गे तिष्ठन् । शिवालयस्य शिवाः कल्याणकारिण आलया गृहा यत्र तस्य । शैलानामधिनाथस्य पत्युर्हिमालयस्यानर्घ्यो यश्चूडामणिस्तत्तामुपैति । हिमालयशिग्वरस्य कैलासशिग्वरा- त्किंचिदधिकत्वम् । यदा कैलासमूर्धनि चन्द्रस्तदा हिमालयस्य मूर्ध्नोऽधः किंचि- द्वर्तत इति भावः ॥ ४४ ॥

 समीयिवांसो रहसि स्मरार्ता रिरंसवो यत्र सुराः प्रियाभिः ।
 एकाकिनोऽपि प्रतिबिम्बभाजो विभान्ति भूयोभिरिवान्विता स्वैः।।

 समीयिवांस इति ॥ यत्र सुराः स्मरार्ता अत एव रिरंसवो रन्तुमिच्छन्तः । रमतेः सन्नन्तात् ‘सनाशंसभिक्ष उः' ( पा. ३|२।१३८ ) इत्युप्रत्ययः । तथोक्ताः। अत एव प्रियाभिः सहैकाकिलोऽपि प्रत्येकमेकसंख्याका अपि रहसि समीयिवांसः प्राप्नुवन्तो भूयोभिः स्वैदेहैरन्विता इव विभान्ति । यतः प्रतिबिम्बभाजः प्रनि- बिम्बितवशादेक एवानेकधा दृश्यत इति युक्तमेवेति भावः ॥ ४५ ॥

 देवोऽपि गौया सह चन्द्रमौलिर्यदृच्छया' स्फाटिकशैलशृङ्गे ।
 शृङ्गारचेष्टाभिरनारताभिर्मनोहराभिर्व्यहरच्चिराय ।। ४६ ॥

 देवोऽपीति ॥ चन्द्रमौलिर्देवोऽपि हरोऽपि स्फाटिकशैलः कैलासस्तस्य शृङ्गे शिखरे । 'शृङ्गं प्रभुत्वे शिखरे' इति मेदिनी। गौर्या पार्वत्या सह यदृच्छया स्वेच्छया, यथाकाममित्यर्थः । मनोहराभिरत एवानारताभिर्निरन्तरं भवन्तीभिः शृङ्गारचेष्टाभिश्चिराय व्यहरद्विजहार ॥ ४६ ॥

 देवस्य तस्य स्मरसूदनस्य हस्तं समालिङ्ग्य सुविभ्रमश्रीः ।
 सा नन्दिना वेत्रभृतोपदिष्टमार्गा पुरोगेण कलं चचाल ॥४७॥

 देवस्येति ॥ सुविभ्रमश्रीः शोभना विभ्रमस्य विलासस्य श्रीर्यस्याः सा पार्वती । स्मरसूदनस्य स्मरविनाशकस्य तस्य देवस्य हरस्य हस्तं समालिङ्ग्य, अवलम्ब्येत्यर्थः । वेत्रभृता यष्टिधारकेण तथा पुरोगेणाग्रगामिना नन्दिना गणे-

पाठा०-१ दिशः. २ समालम्ब्य. ३ उपदिष्टं मार्गम.