एव स्फटिकांशुभिः, शुभैरित्यर्थः । गुप्तिः प्रतिबिम्बगोपनं यस्य, उभयोः शुक्ल- त्वात्पृथगभासमानस्येत्यर्थः । तथोक्तस्य चन्द्रस्य संबन्धी चिह्नप्रकरः कलङ्कसंचयः। 'चिह्नं लक्ष्म च लक्षणम्' इत्यमरः । गौर्या पार्वत्याऽर्पितस्य निहितस्य कस्तूरि- कायाः शकलस्य खण्डस्य । संचय इवेत्युत्प्रेक्षा । लीलां क्रीडाम् , शोभामिति यावत् । करोति । निदर्शनाभेदः । स चोपमायोत्प्रेक्षया वा संकीर्यत इति संदेहसंक- रोऽत्रालंकारः । यदि गौर्यार्पितं तर्ह्युपमा, यदि नार्पितं तर्ह्युत्प्रेक्षेत्यवधेयम् ॥ ४१ ॥
यदीयभित्तौ प्रतिबिम्बिताङ्गमात्मानमालोक्य रुषा करीन्द्राः ।
मत्तान्यकुम्भिभ्रमतोऽतिभीमदन्ताभिघातव्यसनं वहन्ति ।। ४२ ॥
यदीयेति ॥ करीन्द्रा आत्मानं शरीरम् , स्वीयमिति शेषः । यदीयभित्तौ प्रतिबिम्बिताङ्गं प्रतिबिम्बितावयवमालोक्य विलोक्य मत्ता येऽन्ये कुम्भिनो दन्तिनम्तेषां भ्रमतो भ्रमाज्जनितया रुषा क्रोधेन । 'प्रतिधा रुट्क्रुधौ स्त्रियौ' इत्यमरः । अनिभीमा ये दन्तास्तेषां योऽभिघात आघातस्तेन यद्व्यसनं दुःखं दन्तजर्जरितत्वलक्षणं वहन्ति प्राप्नुवन्ति, भ्रमात्मकं ज्ञानं दुःखावहं भवतीति भावः॥ ४२ ॥
निशासु यत्र प्रतिबिम्बितानि ताराकुलानि स्फटिकालयेषु ।
दृष्ट्वा रतान्तच्युततारहारमुक्ताभ्रमं विभ्रति सिद्धवध्वः॥४३॥
निशास्विति ॥ यत्र स्फटिकाचले स्फटिकालयेषु प्रतिबिम्बितानि तारा- कुलानि नक्षत्रकुलानि निशासु दृष्ट्वा सिद्धवध्वः किंनरनार्यो रतान्ते च्युतो भ्रष्ट- स्तारोऽत्युच्चैर्यो हारो मुकाहारः । 'तारोऽत्युच्चैस्त्रयस्त्रिषु' इत्यमरः । तस्य या मुक्ता मौक्तिकानि तासां भ्रमं बिभ्रति । स्फटिकालयप्रतिबिम्बितमुक्तासदृश- नक्षत्रकुलमभिवीक्ष्य सुरतान्तकालीनहारभ्रंशोन्मुक्ताफलभ्रान्तिमत्यः सिद्धवध्वो भवन्तीति भावः ॥ ४३॥
नभश्चरीमण्डनदर्पणश्रीः सुधानिधिर्मूर्धनि यस्य तिष्ठन् ।
अनर्घ्यचूडामणितामुपैति शैलाधिनाथस्य शिवालयस्य ॥४४॥
नभश्चरीति ॥ नभसि चरतीति नभश्चरी, आकाशचारिणीत्यर्थः । 'चरेष्टः' (पा. ३|२|१६) इति टप्रत्यये टित्वात् 'टिड्डाणम्-' (पा. ४|१।१५) इति ङिप् ।
पाठा०-१ नाग. २ रतान्त. ३ शैलाधिराजस्य.