पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१४
[ सर्गः ९
कुमारसंभवे

हिमालयस्तस्य तनूजां कन्यां लोकत्रयस्य मातरं जननीं देवी पार्वतीं च क्रमात्प्रणेमुः, नमश्चक्रुरित्यर्थः । 'उपसर्गादसमासेऽपि' ( पा. ८।४।१४ ) इति णत्वम् ॥ ३५ ॥

 यथागतं तान्विबुधान्विसृज्य प्रसाध मानक्रियया प्रतस्थे ।
 स नन्दिना दत्तभुजोऽधिरुह्य वृपं वृषाङ्कः सह शैलपुत्र्या॥३६॥

 यथागतमिति ॥ स वृषाङ्को हरस्तान्विबुधानिन्द्रादीन्मानक्रियया, संमान- विधानेमेत्यर्थः । प्रसाद्य प्रसन्नान्कृत्वा । तथा यथागतं विसृज्य च । नन्दिना दत्तो भुजो यस्मै तथोक्तः सन् । शैलपुत्र्या पार्वत्या सह वृषमधिरुह्यास्थाय प्रतस्थे । 'समवप्रविभ्यः स्थः' (पा. १|३।२३) इत्यात्मनेपदम् । 'साकं सार्धं समं सह' इत्यमरः ॥ ३६॥

 मनोतिवेगेन ककुद्मता स प्रतिष्ठमानो गंगनाध्वगोऽन्तः ।
 वैमानिकैः साञ्जलिभिर्ववन्दे विहारहेलागतिभिर्गिरीशः॥३७॥

 मन इति ॥ मनसोऽप्यत्यन्तं वेगो गनिर्जवो यस्य तेन ककुद्मता वृषेण गगन- रूपिणोऽध्वनो मार्गस्यान्तर्मध्ये प्रतिष्ठते चलतीति प्रतिष्टमानः स गिरीशो हरो विहारार्यं हेलया क्रीडया गतिर्येषां तैः, यदृच्छया संचरमाणैरित्यर्थः । वैमानिकैर्वि- मानैश्चरन्तीति वैमानिकाः । 'चरनि' (पा. ४|४|८ ) इनि ठक् । 'ठस्येकः' (पा. ७।३।५० ) इनीकादेशः । 'किङ्नि च' (पा. १९१५) इत्यादिवृद्धिः । तथोक्तैः, देवैरित्यर्थः । साञ्जलिभिः सद्भिर्ववन्दे नमस्कृतः । कर्मणि लिट् ॥ ३७ ।।

 वाहिनीवारिविहारचारी रतान्तनारीश्रमशान्तिकारी।
 तौ पारिजातप्रसवप्रसङ्गो मरुत्सिषेवे गिरिजागिरीशौ॥३८॥

 स्वर्वाहिनीति ॥ तौ गिरिजागिरीशौ गौरीहरौ, कर्मभूतावित्यर्थः । स्वर्वा- हिन्या मन्दाकिन्याः संबन्धिनि वारिणि विहारं संचारं चरत्याचरति । करोतीति यावत् , मन्दाकिनीशीकरवाहीत्यर्थः । अनेन शैत्योक्तिः । तथा रतान्ते यो नारीणां संबन्धी श्रमः खेदस्तस्य शान्तिं करोति । अनेन मान्द्योक्तिः । तथा पारिजातस्य कल्पवृक्षस्य संबन्धिनां प्रसवानां पुष्पाणां प्रसङ्गः संबन्धो यस्य । अनेन सौग- न्ध्योक्तिः । शैत्य-मान्द्य सौगन्ध्यरूपगुणत्रयविशिष्टो मरुत् समीरणः, कर्तृभूत इत्यर्थः । सिषेचे, आराधयामासेत्यर्थः ॥ ३८ ॥

पाटा०-१ प्रसादमानक्रियया; प्रसाद्यमानः प्रियया. २ गगनाध्वनीनः.