पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २९-३५]
२१३
हरप्रसादनार्थं गन्धर्वैर्गायनम्

उपाचरताम् , अलंचक्रतुरित्यर्थः । उपाचरतामिति लङः प्रथमपुरुषस्य द्विव- चनम् ॥ ३३ ॥

 व्यधुर्बहिर्मङ्गलगानमुच्चैवैतालिकाश्चित्रचरित्रचारु ।
 जगुश्च गन्धर्वगणाः सशङ्खखनं प्रमोदाय पिनाकपाणेः ॥३२॥

 व्यधुरिति ॥ बहिःप्रदेशे वैतालिका बन्दिनश्चित्रेण चरित्रेण चारु मनोहरं मङ्गलरूपं गानम् , गीतमित्यर्थः । उच्चैरुच्चस्वरेण व्यधुश्चक्रुः । तथा गन्धर्वगणाश्च पिनाकपाणेर्हरस्य प्रमोदायानन्दाय । 'प्रमोदामोदसंमदाः' इत्यमरः । सशङ्खस्वनं पाञ्चजन्यशब्दसहितं यथा तथा जगुः, गायन्ति स्मेत्यर्थः ॥ ३२ ॥

 ततः स्वसेवावसरे सुराणां गणांस्तदालोकनतत्पराणाम् ।
 द्वारि प्रविश्य प्रणतोऽथ नन्दी निवेदयामास कृताञ्जलिः सन् ॥३३॥

 तत इति ॥ ततोऽनन्तरं स्वस्य स्वकर्तृकायाः सेवाया अवसरे समये तस्य हरस्य यदालोकनं तत्र तत्पराणामासक्तानां सुराणां गणान्कर्मभृतान् । नन्दी कर्ता । प्रणतो नम्रीभूतः सन् द्वारि प्रविश्य, न त्वन्तरेवेत्यर्थः । कृताञ्जलिः सन् निवेदयामास, देवा भवदवलोकनसमुत्सुकाः सन्तीति हरं बोधयामासेत्यर्थः ॥३३॥

 महेश्वरो मानसराजहंसीं करे दधानस्तनयां हिमाद्रेः।
 संभोगलीलालयतः सहेलं हरो बहिस्तानभि निर्जगाम ॥३४॥

 महेश्वर इति ॥ महानीश्वरः समर्थो हरो मानसस्य मनोरूपस्य सरसो राजहंसी हिमाद्रेस्तनयां पार्वतीं करे दधानः सन् । संभोगलीलाया आलयतो मन्दिरात् । 'निकाय्यनिलयालयाः' इत्यमरः । बहिस्तान्सुरानभि सहेलं सलीलं यथा तथा निर्जगाम, निश्चक्रामेत्यर्थः ॥ ३४ ॥

 क्रमान्महेन्द्रप्रमुखाः प्रणेमुः शिरोनिबद्धाञ्जलयो महेशम ।
 प्रालेयशैलाधिपतेस्तनूजां देवीं च लोकत्रयमातरं ते ॥३५॥

 क्रमादिति ॥ महेन्द्रप्रमुखास्ते देवाः शिरःसु निबद्धा अञ्जलयो यैस्तथोक्ताः

सन्तो महेशं हरम् । तथा प्रालेयो हिमानीरूपो यः शैलाधिपतिः पर्वतराजो