पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०६
[ सर्गः ९
कुमारसंभवे

 स्वरूपमास्थाय ततो हुताश१स्त्रसन्व२लत्कम्प३कृताञ्जलिः सन् ।
 प्रवेपमानो नित४रां स्मरारिमिदं वचो व्यक्तमयोध्युवाच॥६॥

 स्वरूपमिति ॥ ततोऽनन्तरं हुताशोऽग्निस्त्रसन्बिभ्यन्सन् । 'वा भ्राश-' (पा. ३।१।७०) इत्यादिना वैकल्पिकत्वान्न श्यन् । स्वरूपमाग्नेयं रूपमास्थायाश्रित्य। अथ स्वरूपाश्रयणानन्तरम् । वलन्नुद्भवन् कम्पो यथा तथा कृतो बद्धोऽञ्जलिर्येन । तथा नितरां प्रवेपमानः कम्पमानश्च सन् । स्मरारि शिवं व्यक्तं स्फुटमिदं वक्ष्य- माणं वचोऽध्युवाचोक्तवान् । 'दुह्याच्-' (वा० १०९०-१०९५) इत्यादिना ब्रुवो द्विकर्मकत्वम् ॥ ६ ॥

 असि त्वमेको जगतामधीशः स्वर्गौकसां त्वं विपदो निहंसि ।
 ६ततः सुरेन्द्रप्रमुखाः प्रभो! त्वामुपासते दैत्यवरैर्विधूताः ॥७॥

 असीति ॥ हे प्रभो ! त्वमेको जगतामधीशोऽसि, त्वत्सदृशो जगतां पालयिता न कोऽप्यन्योऽस्तीत्यर्थः । अत एव स्वर्गौकसामिन्द्रादीनां विपदस्त्वं निहंसि दूरी- करोषि । ततः कारणात्सुरेन्द्रप्रमुखा देवास्त्वामुपासते । यतो दैत्यवरैर्विधूतास्तिर- स्कृताः ॥७॥

 त्वया प्रियाप्रेमवशंवदेन शतं व्यतीये ७सुरतादृतूनाम् ।
 ८रह:स्थितेन ९त्वदवीक्षणार्तो दैन्यं परं प्राप सुरैः सुरेन्द्रः॥८॥

 त्वयेति ॥ हे प्रभो ! प्रियायाः पार्वत्याः प्रेम्णा हेतुना वशंवदेन वशीभूतेन । 'प्रियवशे वदः खच्' (पा. ३|२|३८) इति खच् । 'अरुढिषत्-' (पा.६।३।६७) इत्यादिना मुम् । तेन त्वया रहःस्थितेन सता सुरताद्धेतोर्ऋतूनां शतं व्यतीये व्यतीतम् । इणः कर्मणि लिट् । अथ च सुरेन्द्रस्त्वदवीक्षणेन तवानवलोकनेनार्तः पीडितः सन् सुरैः सह परमत्यन्तं दैन्यं प्राप, त्वद्विरहासहत्वादिति भावः ॥ ८॥

 त्वदीयसेवावसरप्रतीक्षैरभ्यर्थितः शक्रमुखैः सुरैस्त्वाम् ।
 उपागतोऽन्वेष्टुमहं विहंगरूपेण विद्वन् ! समयोचितेन ॥९॥

 त्वदीयेति ॥ हे विद्वन् ! त्वदीया त्वत्कर्मिका या सेवा तस्या अवसरस्यपाठा०-१ त्रास; श्वस. २ स्खलत्. ३ कम्प्र; कण्ठ:. ४ अतितराम्.

५ अभ्युवाच. ६ अत:. ७ अत्रभवन्. ८ बहि:स्थितोऽपि. ९ त्वदनीक्षणेन.