पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
[ सर्गः ९
कुमारसंभवे

विषमदिन इत्यर्थः । शंभोः शिवसंबन्धि साग्रं किंचित्साधिकसंख्यमृतूनां शतमेका निशेव तत्तुल्यत्वेनागमद्व्यतीतम् । तथापि सुरतसुखेभ्यस्तु छिन्नतृष्णस्तृप्तो न बभूव । ततो न विररामेत्यर्थः । ज्वलन इव । यथा समुद्रान्तर्गतो ज्वलनो वाडवानलस्तज्ज- लौघैस्तृप्तो न भवति प्रत्यहं ज्वालयत्येव तद्वत् । मालिनीवृत्तम्-'ननमयययुतेयं मालिनी भोगिलोकैः' इति लक्षणात् ॥ ९१ ॥

इति श्रीपर्वणीकरोपनामकश्रीलक्ष्मणभट्टात्मजसतीगर्भसंभवर्श्र
कविविरचितया संजीविनीसमाख्यया व्याख्यया समेतः
श्रीकालिदासकृतौ कुमारसंभवे महाकाव्य उमा-
सुरतवर्णनं नामाष्टमः सर्गः ।

नवमः सर्गः ।


 तथाविधेऽनङ्गरसप्रसङ्गे मुखारविन्दे मधुपः प्रियायाः ।
 संभोगवेश्म प्रविशन्तमन्तर्ददर्श १पारावतमेकमीशः॥१॥

 तथाविध इति ॥ प्रियायाः पार्वत्याः संबन्धिनि मुखारविन्दे वदनकमले मधुपो भ्रमरभूत ईशः शिवस्तथाविधे पूर्वोक्तप्रकारेऽनङ्गरसप्रसङ्गे कामरसावसरे संभोगस्य वेश्म गृहमन्तः प्रविशन्तमेकं पारावतं कपोतं ददर्श दृष्टवान् । सर्गे- ऽस्मिन्वृत्तमुपजातिः ॥ १ ॥

 सुकान्तकान्तामणितानुकारं कूजन्तमाघूर्णितरक्तनेत्रम् ।
 प्रस्फारितोन्नम्रविनम्रकण्ठं मुहुर्मुहुर्न्यञ्चितचारुपुच्छम्२ ॥२॥

 सुकान्तेति ॥ कथंभूतं पारावतम् ! सुकान्तमतिमनोहरं यत्कान्तामणितं रमणीरतिकूजितम् । 'मणितं रतिकूजितम्' इत्यमरः । तस्यानुकारोऽनुकरणं यत्र यस्मिन्कर्मणि तद्यथा तथा कूजन्तं शब्दायमानम् । तथा आघूर्णिते रक्तनेत्रे येन तथोक्तम् । तथा प्रस्फारितो विस्तारित उन्नम्र उच्चैस्तथा विनम्रः कण्ठो यस्य तम् । तथा मुहुर्मुहुर्वारंवारं न्यञ्चितः संकुचितश्चारुः पुच्छः पश्चाद्भागो येन तथोक्तमित्यर्थः। 'पुच्छः पश्चात्प्रदेशे स्यात्' इति विश्वः ॥ २ ॥



पाठा०-१ पारापतम्. २ नर्तित.