पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ५४-६१]
१९५
चन्द्रोऽप्युदेतीति वर्णनम्

 नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
 पुण्डरीकमुखि ! पूर्वदिङ्मुखं कैतकैरिव रजोभिराहतम् ॥५८॥

 नूनमिति ॥ हे पुण्डरीकमुखि कमलमुखि प्रिये ! नूनं यज्वनां द्विजानां पतिश्चन्द्रः शार्वरस्य शर्वरीसंबन्धिनस्तमसो निषिद्धये निवृत्तय उन्नमत्युदेति । अत एव कैतकैः केतकसंबन्धिभी रजोभिरिवाहतं व्याप्तं पूर्वदिशो मुखम् , पश्येति शेषः ५८

 मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।
 त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः॥ ५९॥

 मन्दरेति ॥ सतारका सनक्षत्रा निशा रात्रिर्मन्दरेण गिरिणान्तरिता मूर्तिर्यस्य तेन शशभृता चन्द्रेण प्रियसखीभिः समागता मिलिता त्वं पृष्ठतः स्थित्वा वचनानि श्रोष्यता श्रोतुमवस्थितेन मयेव लक्ष्यते । उपमालंकारः ॥ ५९ ॥

 रुद्धनिर्गमनमा दिनक्षयात् पूर्वदृष्टतनु चन्द्रिकास्मितम् ।
 एतदुद्गिरति चन्द्रमण्डलं दिग्रहस्यमिव रात्रिनोदितम् ॥६॥

 रुद्धेति ॥ आ दिनक्षयाद्दिनक्षयं मर्यादीकृत्य रुद्धनिर्गमनं रुद्वोदयम् । अथ च, पूर्वस्यां दृष्टा तनुर्यस्य । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' (वा० १३७६) इति पूर्वाशब्दस्य पुंवद्भावः । एतच्चन्द्रमण्डलं कर्तृ । रात्र्या नोदितं कथयितुं प्रेरितं सत् । चन्द्रिकैव स्मितं यस्मिन्कर्मणि यथा तथा दिशः पूर्वस्या रहस्यमुद्गिरतीव वमतीव । यथा सेर्ष्या काचित् केनचिद्द्वारा सपत्नी रहस्यं कथयति तथा रात्रिरूपा स्त्री दिग्रूपायाः स्त्रियो रहस्यं तदवयवप्रदर्शनं प्रकटयति, त्वं पश्येत्यभिप्रायः । उत्प्रेक्षालंकारः ॥६॥

 पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोम्भसा ।
 विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥६१॥

 पश्येति ॥ पक्वा या फलिनी तस्याः फलं तस्य त्विडिव त्विड् यस्य । तथा बिम्बेन लाञ्छितं योजितं वियत्सरोऽम्भश्च येन, उभयत्रापि दृश्यमानेनेत्यर्थः हिमांशुना चन्द्रेण कर्त्रा । चक्रवाकयोर्मिथुनं तीरस्थं विडम्ब्यते प्रतार्यते । यतो

पाठा०-१ उन्नयति. २ पश्य दिङ्मुखम् ; दिङ्मुखं यथा. ३ आवृतम्. ४ तनु-

चन्द्रिका. ५ रात्रिचोदिता. ६ चन्द्रमण्डलम्. ७ विप्रकृष्टविधुरम् ; विप्रकृष्टविरहम् ;विप्रकृत्तविवरम्,