ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम् ।
पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम् ॥ ५० ॥
ईश्वर इति ॥ दिवसात्यये सायंकाल उचितं विधिं मन्त्रपूर्वं यथा तथाऽनुतस्थिवान्कृतवानीश्वरोऽप्यसूयया मां त्यक्त्वा गत इत्यभिप्रायगर्भितयेर्ष्ययाऽवचनामभाषमाणाम् । 'वच परिभाषणे' कर्तरि ल्युः । पार्वतीं प्रत्युपेत्य समीपमागत्य पुनः सस्मितं यथा तथाहोक्तवान् ॥ ५० ॥
मुञ्च कोपमनिमित्तकोपने ! संध्यया प्रणमितोऽस्मि नान्यया।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः॥५१॥
मुञ्चेति ॥ हे अनिमित्तकोपनेऽकारणकोपने ! कोपं क्रोधं मुञ्च । यतोऽस्म्यहंं संध्यया कर्त्र्या प्रणमितो नान्यया, अहं संध्यावशं गतः, नान्यावशं गतः; अतः कोपं मा कुर्वित्यर्थः । अथ च आत्मनः सहधर्मचारिणं माम्, संध्यां कर्तुं गच्छन्तमिति शेषः । चक्रवाकेन समा वृत्तिर्यस्य तं किं न वेत्सि? इदानीमुभयोः प्रियाविरहखिन्नत्वादिति भावः ॥ ५५ ॥
निर्मितेषु पितृषु स्वयंभुवा या तनुः सुतनु ! पूर्वमुज्झिता ।
सेयमस्तमुदयं च सेवते तेन मानिनि ! ममात्र गौरवम् ।।५२॥
निर्मितेष्विति ॥ हे सुतनु ! स्वयंभुवा ब्रह्मणा निर्मितेषु कल्पितेषु पितृषु तनुः सूक्ष्मा या संध्या पूर्वमुज्झिता सेयं संध्यास्तमुदयं च सेवते । तेन कारणेन हे मानिनि ! ममात्र गौरवमादरः, अस्तीत्यर्थः ॥ ५२ ॥
तामिमां तिमिरवृद्धिपीडितां शैलराजतनयेऽधुना स्थिताम् ।
एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ॥ ५३ ।।
तामिति ॥ हे शैलराजतनये प्रिये ! तामिमां संध्यामधुनैकतः पूर्वत्र तिमिर वृद्धिपीडितामत एव तटे तमालानां माला यस्यास्तथोक्तां धातूनां गैरिकादीनां रसस्य निम्नगां नदीमिव स्थितां पश्य । उपमालंकारः। मालिनीत्यत्र 'व्रीह्मादिभ्यश्च'(पा. ५।२।११६) इतीनिः॥ ५३ ॥
पाठा०-१ अनुतिष्ठवान्. २ सोऽभ्युपेत्य. ३ प्रयमितः. ४ नान्यथा. ५ उत्थिता.
६ सेव्यते. ७ वृत्ति. ८ भूमिलग्नमिव संप्रति स्थिताम् ; भूमिलग्नमिव संप्रतिष्ठिताम्.