पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
[ सर्गः ८
कुमारसंभवे

 सिंहकेसरसटामु भूभृतां पल्लवप्रसविषु द्रुमेषु च ।
 पश्य धातुशिखरेषु भानुना संविभक्तमिव सांध्यमातपम् ॥४६॥

 सिंहेति ॥ हे प्रिये ! भूभृतां पर्वतानां संबन्धिनां सिंहानां केसराः किञ्जल्का इव याः सटाः स्कन्धकेशास्तासु । पल्लवानां प्रसवो येषु तेषु द्रुमेषु च तथा धातुयुक्तेषु शिखरेषु च भानुना संविभक्तंं सम्यग्विभज्य दत्तमिव सांध्यमातपं पश्य । केसरादीनामात्मसदृशत्वात्सुहृद्भूततया सूर्योऽस्तगमनसमय आसन्नमृत्युः पुरुष आत्मघनमिव घनीभूतं तात्कालिकमातपं तेभ्यो दत्त्वाऽस्तं गच्छतीति भावः ॥४६॥

 अद्रिराजतनये! तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः।
 ब्रह्म गूढमभिसंध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी॥४७॥

 अद्रीति ॥ हे अद्रिराजतनये ! विधिविदस्तपस्विनोऽमी ब्राह्मणाः । अभिसंध्यं संध्यामभिव्याप्य । पावनं पवित्रं यदम्बु तेन विहिताऽञ्जलिक्रियार्घ्यदानं यैस्तथोक्ताः । भूत्वेति शेषः । शुद्धय आत्मशुद्धिं कर्तुमादृता आदरयुक्ताश्च सन्तः । गृढं रहस्यभूतं ब्रह्म गायत्रीं गृणन्ति । जपन्तीत्यर्थः ॥ ४७ ॥

 तन्मुहूर्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि ।
 त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि ! विनोदयिष्यति ४८

 तदिति ॥ हे वल्गुवादिनि मिष्टभापिणि ! तत्तस्मात्कारणात्प्रस्तुताय सांध्याय नियमाय विधये नियमं कर्तुं मामपि मुहूर्तं क्षणमात्रमनुमन्तुं त्वं गच्छेत्यनुमननं कर्तुमर्हसि। तथा त्वांं विनोदे विनोदकरणे निपुणः कुशलः सखीजनो विनोदयिष्यति ॥४८॥

 निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधारणापरा ।
 शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥ ४९ ॥

 निर्विभुज्येति ॥ ततोऽनन्तरं शैलराजतनया पार्वती दशनच्छदमोष्टं निर्विभुज्य वक्रीकृत्य भर्तुर्वाच्यवधीरगापरा तिरस्कृतिसक्ता, श्रुतमप्यशृण्वतीत्यर्थः । समीपगां विजयानाम्नीं सखीम् । अहेतुकं निष्कारणमाललाप, आलापं कृतवतीत्यर्थः ॥४९॥

पाठा०-१ भूभृता. २ धातुशिखरेषु चात्मनः; चास्तशिखरे विवस्वता; धातु- शिखरेषु चात्मना. ३ पार्ष्णिमुक्तवसुधास्तपस्विनः, ४ रचिता. ५ अभिसांध्यम्.

६ सिद्धये. ७ सहेतुकम.