इत्यमरः । आविशद्भिः प्रविशद्भिर्मृगैः। तथा मूलेषु यः सेकः सेचनं तेन सरसा आर्द्रास्तथोक्तैर्वृक्षकैरल्पवृक्षश्चोपलक्षिताः । तथा प्रविशन्त्योऽग्र्याः श्रेष्ठा धेनवो येषु । तथोदीरिता उद्दीपिताः । सायंहोमार्थमिति भावः अग्नयो गार्हपत्यादयो येषु तथोक्ता आश्रमा ऋषीणां वासस्थानानि । श्रियं बिभ्रति, शोभन्त इत्यर्थः ॥३८॥
बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।
षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥३९॥
बद्धेति ॥ बद्धकोशं मुकुलितमपि कुशेशयं कमलं कर्तृ । वसतिं ग्रहीष्यते षट्पदाय भ्रमराय प्रीतिपूर्वमन्तरमवकाशम् । 'अन्तरमवकाशावधि-' इत्यमरः । दातुमिवेत्युत्प्रेक्षा । क्षणं सावशेषं विवरं छिद्रं यस्य तथा तिष्ठति ॥ ३९ ॥
दूरमग्रपरिमेयरश्मिना वारुणी दिगरुणेन भानुना ।
भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥४०॥
दूरमिति ॥ हे प्रिये ! वारुणी दिक पश्चिमदिक् । दूरमग्रे परिमेया अल्पत्वात्परिमातुं शक्या रश्मयः किरणा यस्य तादृशेनारुणेन भानुना। केसरवता किञ्जल्कवता बन्धुजीवं बन्धुजीवाख्यवृक्षपुष्पं तदेव तिलकं तेन मण्डिता कन्यकेव भाति| ४०
सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयंगमस्वनैः ।
भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः॥४१॥
सामभिरिति ॥ किणोप्मपायिनः किरणानामूष्माणमेव पिबन्तीति तथोक्ताः। सहस्रशः सहचरा वालखिल्यादय ऋषयः । अग्नौ परिकीर्ण निक्षिप्तं तेजो येन तं भानुं सूर्यम् । स्यन्दनम्य स्थस्य संबन्धिनो येऽश्वाम्तेषां हृदयंगमा मनोहराः स्वना येषां तैः सामभिः सामवेदैः संस्तुवन्ति, स्तुतिं कुर्वन्तीत्यर्थः ॥ ४१ ॥
सोऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः ।
अस्तमेति युगभुग्नकेसरैः संनिधाय दिवसं महोदधौ ॥ ४२ ॥
सोऽयमिति ॥ सोऽयं सूर्यो दिवसं महोदधौ संनिधाय संस्थाप्य । आनता नम्रीभूता शिरोधरा ग्रीवा येषां तैः । अत एव कर्णयोश्चामरैर्विघट्टिते
४ कुसुमेन. ५ स्यन्दनस्य. पाठा०-१ उत्तरम्. २दृरलग्न. ३ वारुणा.
६ स्वरैः. ७