पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
[ सर्गः ८
कुमारसंभवे

 प्रियानुरागव्यञ्जकचेष्टामाह-

 चुम्बनादलकचूर्णदूषितं शंकरोपि नयनं ललाटजम् ।
 उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ १९ ॥

 चुम्बनादिति ॥ चुम्बनाद्वेनोरलकचूर्णेन केशप्रसाधनचूर्णविशेषेण दूषितमवरुद्ध ललाटजं ललाटे जातम् । 'सप्तम्यां जनेर्डः' (पा.३।२।९७) इति डप्रत्ययः । अलुको वैभाषिकत्वान्नालुक् । नयनं नेत्रम् । उक्छ्वसत्कमलगन्धये विकसत्कमलसुगन्धये, पद्मीनीत्वादिति भावः । 'उपमानाच्च' (पा.५।४।१३७) इतीकारः । 'गन्धो गन्धक आमोदे' इति विश्वः । पार्वत्या वदनमेव गन्धवाही पवनस्तस्मै । 'गन्धवाहानिलाशुगाः' इति कोशनिर्दिष्ट गन्धवाह' शब्दस्य गन्धं वहतीति योगालम्बनेन 'गन्धवाहि'शब्देनापि वायुवप्रतीतिः। रूढ्यालम्बने त्वण्प्रत्ययान्तस्यैव पवनत्वप्रतीतौ शक्तिमत्त्वादवाचकपददोषप्रसङ्ग इति बोध्यम् । ददौ, तत्राधो रजो निवर्तयितुं स्थापितवानित्यर्थः ॥ १९॥

 एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः ।
 शैलराजभवने सहोमया मासमात्रमवसद्वृपध्वजः ॥ २० ।।

 एवमिति ॥ एवमिन्द्रियाणि सुखयतीतीन्द्रियसुखः। 'सुख शब्दात् करोत्यथंकणिजन्तात्पचाद्यच् । णिज्लोपश्च । तस्य वर्त्मनः सेवनादाचरणाद्धेतोरनुगृहीतः प्रसादितो मन्मथो येन, स्ववपुर्योजनादिति भावः । अत्र 'परिणेष्यति पार्वतीं यदा वपुषा स्वेन नियोजयिष्यति' (४।४२) इति चतुर्थसर्गोक्तमनुसंन्धेयम् । तथोक्तो वृषध्वजो हरः शैलराजभवने हिमालयगृह उमया पार्वत्या सह मासमात्रं त्रिंशद्दिनात्मकः कालो मासस्तमेवावसत् । 'कालाध्वनो:-'(पा.२।३|५) इति द्वितीया । 'मात्रं कार्त्स्न्येऽवधारणे' इत्यमरः ॥ २० ॥

 सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम् ।
 तत्र तत्र विजहार संपतन्नप्रमेयगतिना ककुद्मता ॥ २१ ॥

 स इति ॥ स आत्मभूः शिवः। आत्मजायाः पार्वत्या विरहदुःखेन खेदितं हिमवन्तमनुमान्य तत आज्ञां गृहीत्वा। अप्रमेयवत्स्वेव स्थानेषु वर्तत इत्यपरिच्छेद्या गतिर्गमनव्यापारो यस्य तथाभूतेन ककुद्मता नन्दिना तत्र तत्र पर्वते

पाठा०-१ चात्मनः. २ मासमेकम्. ३ अनुमन्य. ४ पीडितम्. ५ संचरन्.