पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १३-१८]
१८३
शिवेशयो रतिचेष्टावर्णनम्

कातरम् , तदसहिष्ण्वित्यर्थः। गूढं सखीजनानभिज्ञेयं तयोः शिवपार्वत्योः प्रेम नेहः। 'प्रेम स्नेहोऽथ दोहदम्' इत्यमरः । कैश्चिदेव दिवसैरितरेतराश्रयं परस्परनिष्ठम् , अभूदिति शेषः ॥ १५ ॥

  प्रेम्णः परस्पराश्रयत्वमेव प्रपञ्चयति-

 तं यथात्मसदृशं वरं वधूरन्वरज्यत वरस्तथैवा ताम् ।
 सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैकवृत्तिभाक् ॥१६॥

 तमिति ॥ वधूः पार्वती । आत्मसदृशं तं वरं शिवमनु लक्षयित्वा यथा येन प्रकारेणारज्यत । 'रञ्ज रागे' दैवादिकाल्लङ् ! वरः शिवस्तां वधूमनु तथैवारज्यत । हि यथा जाह्नवी सागरासमुद्रादनपगाऽनिवर्तमाना, अस्तीति शेषः । सोऽपि समुद्रोऽपि तस्या जाह्नव्या मुखसंबन्धिनि रस एकां केवलां वृत्तिं भजतीति तथोक्तः, अस्तीति शेषः । उपमालंकारः ॥ १६ ॥

 शिष्यतां निधुवनोपदेशिनः शंकरस्य रहसि प्रपन्नया ।
 शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम् ।। १७॥

 शिष्यतामिति ॥ निधुवनोपदेशिनः सुरतोपदेष्टुः शंकरस्य शिष्यतामुपदेश्यतां प्रपन्नया प्राप्तया तया पार्वत्या रहसि यद्युवतीषु त्रिजगद्विलासिनीपु मध्ये नैपुणं कौशलं शिक्षितमधीतम् । तदेव नैपुणशिक्षणमेव गुरुदक्षिणीकृतं गुरोरदक्षिणा दक्षिणा यथा संपद्यते तथा कृतम् । अभूततद्भावे च्विः। 'अस्य च्वौ' (पा.७।४।३२) इतीकारः । शिवोपयोगित्वेन तत्कृतसुरतारम्भानुगुणसुरतकौशलमेव दक्षिणात्वेन परिणतमिति भावः । इह वाक्यार्थवृत्तिनिदर्शनालंकारः; 'वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना' इत्युक्तत्वात् ॥ १७ ॥

 दष्टमुक्तमधरोष्ठमम्बिका वेदनाविधुतहस्तपल्लवा ।
 शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः ॥१८॥

 दष्टमुक्तमिति ॥ अम्बिका पार्वती पूर्व दष्टं पश्चान्मुक्तमधरोष्ठं वेदनया पीडया विधुतौ कम्पितौ हस्तौ पाणी एव पल्लवौ यया तथोक्ता सती शीतलेन शूलिनः शिवस्य मौलौ यच्चन्द्रस्य शकलं कलारूपं तेन कृत्वा क्षणं निरवापयत् , सुखयति स्मेत्यर्थः ॥ १८॥

पाठा०-१ निर्वृतिः, २ तत्.