पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८२
[ सर्गः ८
कुमारसंभवे

यौवनं यस्यास्तथोक्तां विलोक्य समाश्वसदाश्वासं प्राप, हृष्टवतीति यावत् । तथा हि-वधूजनो मातुर्मानसीं मनसिजां शुचं शोकं भर्तृवल्लभतया भर्तृप्रीति- पात्रतयाऽस्यति क्षिपति । 'असु क्षेपणे' लट् । आत्मजासु पतिप्रसाद एव मातृणां मुदो हेतुरिति भावः ॥ १२॥

 वासराणि कतिचित्कथंचन स्थाणुना रतमकारि चानया ।
 ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥१३॥

 वासराणीति ॥ कतिचिद्वासराणि दिवसान् । 'घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ' इत्यमरः । 'कालाध्वनो:-' (पा.२|३।५) इति द्वितीया । स्थाणुना शिवेन । 'स्थाणू रुद्र उमापतिः' इत्यमरः । अनया पार्वत्या सह कथंचन बलेन रतं सुरतमकारि कृतम् , तदनुकूलरसोत्पत्यभावादिति भावः। अथ च सा शनैः शनैर्ज्ञातो मन्मथरसो यया तथा सती रतौ या दुःखशीलता दुरवगाह्यस्वभावता तां मुमोच, स्वयमप्यनुरज्यति स्मेत्यर्थः ॥ १३ ॥

  तदेवाह-

 सखजे प्रियमुरोनिपीडनं प्रार्थितं मुखमनेन नाहरत् ।
 मेखलाप्रणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥ १४ ॥

 सस्वज इति ॥ सा पार्वती। उरसो निपीडनं यस्मिन्कर्मणि यथा स्यात्तथा प्रियं सस्वज आलिङ्गितवती, तथाऽनेन प्रियेण प्रार्थितम् चुम्बनार्थमित्यर्थः । मुखं नाहरन्नावक्रयत्। परंतु मेखलया काक्ष्या सह यः प्रणयः स्नेहस्तत्र या लोलता, जिघृक्षया मन्दप्रसरणमित्यर्थः। तां गतं प्राप्तमस्य प्रियस्य हस्तं पाणि शिथिलं मन्दं यथा तथा रुरोध, न तु प्रागिवेति भावः ॥ १४ ॥

 भावसचितमदृष्टविप्रियं दार्ढ्यभाक्क्षणवियोगकातरम् ।
 कैश्विदेव दिवसैस्तथा तयोः प्रेम गूढमितरेतराश्रयम् ॥ १५ ॥

 भावेति ॥ भावेन स्वगतत्वाभिव्यञ्जकचेष्टाविशेषेण सूचितं ज्ञापितम् । 'भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु' इति मेदिनी । तथा न दृष्टं विप्रियमौदासीन्यं यत्र । तथा दार्ढ्यं दृढत्वं भजति तथोक्तम् । तथा क्षणवियोगेऽपि

पाठा०-१ पदमकार्यत प्रिया. २ रत. ३ निपीडितम् ; निपीडिता. ४ चाटुतत्क्षण; चाटुमत्क्षण.५ तदा. ६ रूढम्.