पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
[ सर्गः ८
कुमारसंभवे

 अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् ।
 वीक्षितेन परिवीक्ष्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥ ६ ॥

 अपीति॥ पार्वत्यनङ्गशासनं प्रियं कथायां संभाषणे प्रवृत्तये, लजावशान्मां प्रति मौनमाश्रिताया अस्याः संभाषणे कथमपि प्रवृत्त्यर्थमित्यर्थः । अवस्तुन्यप्यलभ्यपदार्थेऽपि प्रश्नतत्परं परिवीक्ष्य ज्ञात्वा । हृच्चक्षुषावेक्षणमिहापेक्षितम् । वीक्षितेन प्रियसंमुखमवलोकनेन मूर्ध्नः कम्पस्तन्मयं तद्रूपम् , न हि किंचिन्मयापेक्षितमित्यभिलाष व्यञ्जकमिति भावः । उत्तरं ददौ ॥ ६ ॥

 शूलिनः करतलद्वयेन सा संनिरुध्य नयने हृतांशुका ।
 तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥ ७॥

 शूलिन इति ॥ रहसि हृतांशुका, रतार्थमिति भावः । अत एव करतलयोर्द्वयेन शूलिनः प्रियस्य नयने, द्वे इति शेषः । संनिरुध्यावृत्य स्थिता सा पार्वती । तस्य ललाटलोचने तृतीये नेत्रे पश्यति सति । मोघो निष्फलो यत्नो यस्या अत एव विधुरा दुःखिता । ततो विशेषणसमासः । अभूत् ॥ ७ ॥

 चुम्बनेष्वधरदानवर्जितं खिन्नहस्तमदयोपगूहनम् ।
 क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ।। ८॥

 चुम्बनेष्विति ॥ चुम्बनेश्वधरदानेनाधरोष्ठखण्डनेन । 'दो अवखण्डने' । भावे ल्युट । वर्जितं रहितमपि तथा खिन्नहस्तं मन्दप्रचारितकरम् , स्तनयोरिति शेषः । गम्यमानार्थत्वादप्रयोगः । 'पाणिः' इति पाठे भिन्नं पदम् । तदा खिन्नपाण्यपीति योजनीयम् । सदयमगाढं यदुपगृहनमालिङ्गनं तद्यस्मिंस्तादृशमपि । अत एव क्लिष्टः परितोषाभावात्खिन्नो मन्मथः कामो यस्मिंस्तत्तथोक्तमपि । तथा दुर्लभं प्रतिकृतं प्रतीकारो यस्य, रसाभासभियेति भावः । प्रतिकृतमिति भावे निष्ठा । तथोक्तमपि वधूरतं प्रियासुरतं प्रभोः प्रियस्य प्रियं प्रीतिजनकम् । 'इगुपध-' (पा. ३।१।१३५) इति कः । अभूदिति शेषः ॥ ८ ॥

 यन्मुखग्रहणमक्षताधरं दानमव्रणपदं नखस्य यत् ।
 यद्रतं च सदयं प्रियस्य तत्पार्वती विपहते स्म नेतरत् ॥ ९॥

पाठा०-१ परिगृह्य. २ सन्नहस्तमदयोपगूहने. ३ दत्तम्. ४ नखं च. ५ हर स्य.