पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ६४-६९]
१६७
शिवमवलोक्य पुरसुन्दरीसँल्लपनम्

यत्नः प्रयासो विफलोऽभविष्यद्भवेत् , एतदनुरूपस्त्रीपुंसान्तराभावादिति भावः। ‘लिङ्निमित्ते लुङ् क्रियातिपत्तौ' (पा.३।३।१३९) इति लृङ ॥ ६६ ॥

 न नूनमारूढरुषा शरीरमनेन दग्धं कुसुमायुधस्य ।
 व्रीडादमुं देवमु1दीक्ष्य मन्ये संन्यस्तदेहः स्वयमेव कामः ॥६७॥

 नेति ॥ आरूढरुषा प्ररूढकोपेनानेन हरेण कुसुमायुधस्य कामस्य शरीरं न दग्धं नूनम् , किंतु कामोऽमुं देवमुदीक्ष्य दृष्ट्वा व्रीडात्सौन्दर्येण 'जितोऽस्मि' इति लज्जया स्वयमेव संन्यस्तदेहस्त्यक्तदेह इति मन्य इत्युत्प्रेक्षा । न स्वयं न्यस्ताकृतेः कोपः संभवतीति भावः ॥ ६७ ॥

 काचिकांचिदाह-

 अनेन संबन्ध2मुपेत्य दिष्टया मनोरथप्रार्थितमीश्वरेण ।
 मूर्धानमालि ! 3क्षितिधारणोच्च4मुच्चैस्तरं वक्ष्यति शैलराजः॥८॥

 अनेनेति ॥ हे आलि सखि ! 'आलिः सखी वयस्या च' इत्यमरः । शैल- राजो हिमवान् । 'दिष्ट्या' इत्यानन्देऽव्ययम् । मनोरथैः प्रार्थितमवरुद्धम् , अभि- लाषविषयीकृतमित्यर्थः । 'प्रार्थना याञ्जावरोधयोः' इत्यभिधानात् । अनेनेश्वरेण संबन्धमुपेत्यावाप्य क्षितिधारणेनोच्चमुन्नतं मूर्धानमुच्चस्तरमुन्नततरम् । उच्चैरित्य- व्ययात्तरप्प्रत्ययः । मूर्ध्नो द्रव्यत्वान्नामुप्रत्ययान्तो निपातः । 'किमेत्तिङ्व्यय- धादाम्वद्रव्यप्रकर्षे' (पा. ५।४।११) इत्यादिनाऽद्रव्यप्रकर्षे तस्य विधानादिति । वक्ष्यति धारयिष्यति । वहतेर्लट् ॥ ६८॥

 इत्योषधिप्रस्थविलासिनीनां शृण्वन्कथाः श्रोत्रसुखास्त्रिनेत्रः ।
 केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयमाससाद ।। ६९ ॥

 इतीति ॥ त्रिनेत्रस्त्रयम्बकः । त्रिनेत्र-त्रिनयनशब्दयोः 'क्षुभ्नादिषु च' (पा. ८।४।३९) इति णत्वाभावः । इतीत्थमोषधिप्रस्थविलासिनीनां संबन्धिनीः श्रोत्रसुखाः श्रवणमधुराः कथा आलापाञ्शृण्वन् केयूरैरङ्गदैश्चूर्णीकृता लाजानां\


पाठा०-१ अवेक्ष्य. २ अवाप्य. ३ क्षितिपालनोच्चम्. ४ उच्चैस्तराम्. ५ वृष्टिः, मुष्टिः. टिप्प०-1 अनेन पुरसुन्दरीणां स्वपक्षभूतस्य मन्मथस्य मारणजनिताया भगवद्विष

यिण्या असूयायाः प्रशमो दर्शितः।