पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
[ सर्गः ७
कुमारसंभवे

 तावदिति ॥ तावत्तस्मिन्नवसर इन्दुमौलिरीश्वरो दिवापि प्रासादशृङ्गाणि ज्योत्स्नाया अभिषेकेण स्त्रपनेन द्विगुणधुतीनि द्विरावृत्तकान्तीनि । 'गुणस्त्वा- वृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । कुर्वन् । पताकाभिराकुलं व्याकीर्णमुत्तोरणमुच्छ्रिततोरणं राजपथं प्रपेदे ॥ ६३ ॥

 तमेकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
 तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिख प्रविष्टा ॥६४॥

 तमिति ॥ एक एव दृश्यो दर्शनीयस्तमेकदृश्यं तमीश्वरं नयनैः पिबन्त्यः, अतितृष्णया पश्यन्त्य इत्यर्थः । 'ताः शंकरं दृष्टिभिरापिबन्त्यः' इति वा पाठः । नार्यो विषयान्तराणि ततोऽन्यान्विषयान् , शब्दादीनित्यर्थः । न जग्मुः, न विदुरित्यर्थः । तथा हि-आसां नारीणां शेषेन्द्रियवृत्तिः श्रोत्रादि- प्रवृत्तिः सर्वात्मना स्वरूपकार्त्स्येन चक्षुः प्रविष्टेव, श्रोत्रादीनीन्द्रियाणि स्वातन्त्र्येण ग्रहणाशक्तेश्चक्षुरेव प्रविश्य कौतुकात्स्वयमप्येनमुपलभन्ते किमु ? अन्यथा स्वस्व विषयाधिगमः किं न स्यादिति भावः ॥ ६४ ॥

 अथ पौराङ्गनावचनान्याह-

 स्थाने तपो दुश्चरमेतदर्थमपर्णया 1पेलवयापि तप्तम् ।
 यादास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम्॥

 स्थान इति ॥ पेलवया कोमलयाप्यपर्णया पार्वत्यैतस्मै शिवायेदमेतदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता च' (वा. १२७३) इति विशेष्यनिघ्नत्वम् । दुश्चरं तपस्तप्तं स्थाने युक्तम् । कुतः? या नार्यस्येश्वरस्य दास्यं दासीत्वमपि लभेत सा कृतार्था स्यात् । या अङ्क एवं शय्या तामङ्कशय्यां लभेत सा किमुत ? कृतार्थेति किमु वक्तव्यमित्यर्थः ॥ ६५ ॥

 परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
 अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां 2विफलोऽभविष्यत् ६६

 परस्परेणेति ॥ स्पृहणीयशोभं सर्वैराशास्यमानसौन्दर्यमिदं द्वन्द्व मिथुनम्। 'द्वन्दं रहस्य-' (पा.८/१/१५) इत्यादिना निपातः । परस्परेण नायोजयिष्यच्चेन्न योजयेद्यदि, प्रजानां पत्युर्विधातुरस्मिन्द्वये द्वन्द्वे रूपविधाने सौन्दर्यनिर्माणे

पाठा०-१ कोमलया. २ वितथः.