तेनैव रूपेण शलाकामञ्जनकूर्चिकां वहन्ती बिभ्रती वातायनसंनिकर्ष गवाक्ष- समीपं ययौ । 'दक्षिण'ग्रहणं संभ्रमायुरक्रमद्योतनार्थनम् । 'सव्यं हि पूर्वं मनुष्या अञ्जते' इति श्रुतेः ॥ ५९॥
जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ६॥
जालान्तरेति ॥ अन्या स्त्री जालान्तरप्रेषितदृष्टिर्गवाक्षमध्यप्रसारितदृष्टिः सती प्रस्थानेन गमनेन भिन्नां त्रुटितां नीवीं वस्त्रग्रन्थिम् । 'नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि' इति विश्वः । न बबन्ध नाबध्नात् , किंतु नाभि प्रविष्टाभरणानां अलंकाराणां प्रभा यस्य तेन, प्रभैव नाभेरावरणमभूदिति भावः । हस्तेन वासोऽवलम्ब्य कृत्वा तस्थौ ॥ ६ ॥
1अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ६॥
अर्धाचितेति ॥ सत्वरं सवेगमुत्थितायाः कस्याश्चिदर्धमाचिता मणि- भिर्गुम्फितार्धाचिता दुर्निमिते संभ्रमाद्दुःखेन निक्षिप्ते । 'डुमिञ् प्रक्षेपणे' इति धातोः कर्मणि क्तः । पदे पदे प्रतिपदम् । वीप्सायां द्विर्भावः । गलन्ती गल- द्रत्ना सती रशना मेखला तदानीं तस्मिन्नवसरेऽङ्गुष्ठमूलेऽर्पितं लगितं सूत्रमेव शेषो यस्याः सासीत् ॥ ६१ ॥
तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ६२ ॥
तासामिति ॥ तदानीं सान्द्रकुतूहलानां तासां स्त्रीणामासवगन्धो गर्मे येषां तैः विलोलानि नेत्राण्येव भ्रमरा येषु तैर्मुखैर्व्याप्तान्तराश्छन्नावकाशा गवाक्षाः सहस्रपत्राभरणा इवासन् कमलालंकृता इव स्थिता इत्यर्थः ।। ६२ ॥
तावत्पताकाकुलमिन्दुमौलिरुत्तोरणं राजपथं प्रपेदे ।
प्रासादशृङ्गाणि दिवापि कुर्वञ्ज्योत्स्नाभिषेकद्विगुण3द्युतीनि ६३
पाठा०-१ अर्धाञ्चिता. २ स्तनंधयन्तं तनयं विहाय विलोकनाय त्वरया
वजन्ती । संप्रस्नुताभ्यां पदवीं स्तनाभ्यां सिषेच काचित्पयसा गवाक्षम् ॥ ३ छवीनि.