पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
[ सर्गः ७
कुमारसंभवे

कार्यान्तराणि विचेष्टितानि व्यापाराः । 'नपुंसके भावे क्तः' (पा.३।३।११४) इति कः । बभूवुरासन्1 ॥ ५६ ॥

 तान्येवाह पञ्चभिः श्लोकैः-

 आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
 बन्धुं न संभावित एव तावत्करेण रुद्धोऽपि 1च केशपाशः॥५७॥

 आलोकमार्गमिति ॥ आलोकमार्गं दर्शनपथम् , गवाक्षमित्यर्थः। सहसा व्रजन्त्या गच्छन्त्या कयाचिदुद्वेष्टनो द्रुतगतिवशादुन्मुक्तबन्धनोऽत एव वान्त- माल्य उद्गीर्णमाल्यश्च यः स उद्वेष्टनवान्तमाल्यः करेण रुद्धो गृहीतोऽपि च केशपाशः केशकलापः । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । तावदालोकनमार्गप्राप्तिपर्यन्तं बन्धु, बन्धनायेत्यर्थः । न संभावितो न स्मृत एव ।। ५७॥

 प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्रवरागमेव ।
 2उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्क्षां पदवीं ततान ।। ५८ ॥

 प्रसाधिकेति ॥ काचित्स्त्री प्रसाधिकयाऽलंकर्त्र्यालम्बितं रञ्जनार्थ धृतं द्रव- रागमेवार्द्रालक्तकमेव । अग्रश्चासौ पादश्चाप्रपादः इति समानाधिकरणसमासः। 'हस्ताग्राग्रहस्तादयो गुणगुणिनोर्भैदाभेदाभ्याम्' (काव्या. सू. ५।२।२०) इति वामनः।तमाक्षिप्याकृष्योत्सृष्टलीलागतिस्त्यक्तमन्दगमना सती आगवाक्षाद्वाक्ष- पर्यन्तम् । पदद्वयमेतत् । पदवीमलककाङ्कां लाक्षारसचिह्नां चकार ॥ ५८ ॥

 विलोचनं दक्षिणमञ्जनेन संभाव्य तद्वञ्चितवामनेत्रा।
 तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्ती ॥ ५९॥

 विलोचनमिति ॥ अपरा स्त्री दक्षिणं विलोचनमञ्जनेन संभाव्यालङ्कृत्य तद्वञ्चितं तेनाञ्जनेन 2वञ्चितं वर्जितं वामनेत्रं यस्याः सा तथोक्ता सती। तथैव


पाठा०-१ न केशहस्त; हि केशपाशः. २ उन्मृष्ट. टिप्प०-1 अत्र पुरवधूवृत्तवर्णनसम" संभ्रमोपकृतमौत्कण्ठ्यं प्रतिपाद्यते। 2 तच्चोक्तं भोजराजेन-'अदानं च प्रतिश्रुत्य विसंवादनमेव च । कालस्य हरणं चाहुः प्रत्यादानं

च वञ्चनम्' इति ।