पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ३८-४३]
१५९
सुरादिसेवावर्णनम्

 सुराणां सेवाप्रकारमेवाह-

 उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
 स तद्रुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥४१॥

 उपादद इति ॥ तस्य हरस्य सहस्ररश्मिः सूर्यस्त्वष्ट्रा विश्वकर्मणा निर्मितं नव- मातपत्रमुपाददे। धृतवानित्यर्थः, उत्प्रेक्षते-तढुकूलात्तस्यातपत्रस्य प्रान्तलम्बिनो दुकूलादविदूरमौलिः, तद्रुकूलस्यासन्नमौलिरित्यर्थः । स हर उत्तमाङ्गे शिरसि । 'उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः । पतन्ती गङ्गा यस्य स पतद्गङ्ग इव बभौ। तद्रुकूलादित्यत्र 'दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्' (पा. २।३।३४) इति दूरार्थयोगे विकल्पेन पञ्चमी । नाथेनोक्तम्-'अन्यारात्-' (पा. २।३।२९) इत्यत्र 'आरात्'- शब्दस्यार्थग्रहणार्थत्वात्पञ्चमीति,-तदनाकरम् ; किंचास्य शास्त्रोक्तविकल्पापवाद- त्वात् 'दूरं ग्रामस्य' इत्यादिषष्ठीप्रयोगो दूरापास्तः स्यादित्युपेक्षणीयमेव ॥ ४१ ॥

 मृते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम् ।
 समुद्रगारूपविपर्ययेऽपि सहंसपाते इव लक्ष्यमाणे ॥४२॥

 मूर्ते इति ॥ गङ्गा च यमुना च गङ्गायमुने मूर्ते विग्रहधारिण्यौ सचामरे चामरसहिते सत्यौ । अत एव समुद्रगा नदी तस्या रूपं स्वरूपं तस्य विपर्यये. ऽप्यभावेऽपि हंसपातेन हंसचारेण सह वर्तेते इति सहंसपाते इव । 'तेन सहेति तुल्ययोगे' (पा. २।२।२८) इति बहुव्रीहिः । 'वोपसर्जनस्य' (पा. ६।३।८२) इति सभावः । लक्ष्यमाणे दृश्यमाने सत्यौ तदानी विवाहसमये देवमसेविषाताम- भजताम् । सेवतेलुङ् । गङ्गायमुने चामरग्राहिण्यो देवमुपतस्थतुरित्यर्थः ॥ ४२ ॥

 तमभ्यगच्छत्प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् ।
 जयेति वाचा महिमानमस्य संवर्धयन्तौ हविपेव वह्निम् ॥४३॥

 तमिति ॥ प्रथम आद्यो विधाता चतुर्मुखस्तथा श्रीवत्सलक्ष्मा श्रीवत्साङ्कः पुरुषो विष्णुश्च साक्षात्तं देवमभ्यगच्छत् संमुखमाययौ । किं कुर्वन्तौ ? नयेति


पाठा०-१ वहन्गाङ्गमिव प्रवाहं. २ सहस्रपाते. ३ एव. टिप्प०-1 'अभ्यगच्छत्' इत्येकवचनप्रयोगविरोधात् केचित्त्वत्र 'संवर्धयन्तौ' इति दिवचनप्रयोगोऽयुक्त इत्याहुः,-तत्त्वयुक्तम् ; भयकृतपरिचर्याप्रकारवाचित्वाद्वाक्यस्यास्य

द्विवचनप्रयोगोपपत्तेः, अर्थादभूतामिति क्रियान्तरान्वयस्य सिद्धत्वाच्चेत्यवसेयम् ।