पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
[ सर्गः ७
कुमारसंभवे

 स इति ॥ स देवो नन्दिभुजावलम्बी नन्दिकेश्वरभुजावलम्बनः सन् , शार्दूलचर्मणा व्याघ्रचर्मणाऽन्तरितमाच्छादितमुरु विशालं पृष्ठं यस्य तं तथोक्तम् । 'शार्दूलद्वीपिनो व्याने' इत्यमरः । तस्मिन्देवे भक्त्या संक्षिप्तं संकोचितं बृह- त्प्रमाणं यस्य तं गोपतिं वृषभं कैलासमिवारुह्य प्रतस्थे चचाल ॥ ३७ ॥

 तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।
 मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुरिखान्तरीक्षम् ॥ ३८ ॥

 तमिति ॥ तं देवमनुवजन्त्योऽनुगच्छन्त्यः स्ववाहनानां क्षोभेण प्रकम्पेण चलावतंसाश्चलकुण्डला मातरः सप्तमातृकाः प्रभामण्डलान्येव रेणवः परागा- स्तैगौरैररुणैः । 'गौरोऽरुणे सिते पीते' इति यादवः । मुखैरन्तरीक्षमाकाशं पद्मा- करमिव चक्रुः ॥ ३८ ॥

 तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे ।
 बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशतहदेव ॥३९॥

 तासामिति ॥ कनकप्रभागां सुवर्णवर्णानां तासां मातॄणां पश्चात्कपाला- भरणा, सितकपालालंकारेत्यर्थः । काली महाकाली देवी च । कृष्णवर्णत्वसूचनाय कालीसंज्ञयाभिधानम् । बलाकिनी बलाकावती । ब्रीह्यादित्वादिनिः । दूरं यथा तथा पुरोऽग्रे क्षिप्ताः प्रसारिताः शतहदा विद्युतो यस्याः सा तथोक्का नीलपयोद- राजी कालमेघपङ्क्तिरिव चकासे ॥ ३९ ॥

 ततो गणैः शूलभृतः पुरोगैरुदीरितो मङ्गलतूर्यघोषः ।
 विमानशृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥ ४० ॥

 तत इति ॥ ततोऽनन्तरं शूलभृतः शिवस्य पुरो गच्छन्तीति पुरोगैरग्रेसरैः । 'अन्यत्रापि दृश्यत इति वक्तव्यम्' (वा. २०१८) इति गमेर्डप्रत्ययः । गणैः प्रमथैरुदीरित उत्पादितो मङ्गलतूर्यघोषो मङ्गलवाद्यध्वनिर्विमानशृङ्गाण्यवगाहमानः सन् सुरेभ्यो विमानस्थेभ्यः सेवावसरं शशंस। सुराः प्रस्थानतूर्यध्वनिमाकर्ण्य 'अयमेव नः सेवावसरः' इत्याजग्मुरित्यर्थः ॥ ४०॥


पाठा०-१ नाक्षोभ. २ पद्माकरीचक्रुः. ३ अन्तरिक्षम्. ४ राजिः,