ललाटास्ध्नि' इत्यमरः । अन्तर्निविष्टा मध्यगताऽमला पिङ्गा तारा कनीनिका यस्य तत्तथोक्तम् । 'तारकाक्ष्णः कनीनिका' इत्यमरः। यद्विलोचनं तद्विलोचनमेव हरितालमय्या वर्णद्रव्यविशेषविकारस्य तिलकक्रियायास्तिलकरचनायाः संनि- धिरेव सांनिध्यं तदेव पक्षः साध्यम् । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति यादवः । तस्मिन्सांनिध्यपक्षे जातम् , प्रविष्टमित्यर्थः । अनेन ललाटलोचनमेव तस्य हरितालतिलकमभूदित्युक्तम् ॥ ३३ ॥
यथाप्रदेशं भुजगेश्वराणां करिष्यतामाभरणान्तरत्वम् ।
शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥३४॥
यथेति ॥ यथाप्रदेशं प्रदेशान्कोष्ठादीननतिकम्याभरणान्तरस्वं कङ्कणाद्या- भरणविशेषत्वं करिष्यतां संपादयिष्यतां भुजगेश्वराणां शरीरमानं शरीरमेव विकृतिं रूपान्तरं प्रपेदे । फणरत्नशोभास्तथैव तस्थुः, तासां तथैवोपादेयत्वा- दिति भावः ॥ ३४ ॥
दिवापि निष्ठयूतमरीचिभासा वाल्यादनाविष्कृतलाञ्छनेन ।
चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य ॥ ३५ ॥
दिवापीति ॥ दिवा दिनेऽपि निष्ठयूता उद्गीर्णा मरीचिभासः किरणकान्तयो यस्य तेन बाल्यादल्पतनुत्वादनाविष्कृतलाञ्छनेन, अदृश्यमानकलङ्केनेत्यर्थः । चन्द्रेण नित्यं सर्वदा प्रतिभिन्नमौलेः संगतमुकुटस्य हरस्य चूडामणेग्रहणं स्वीकारः किं किमर्थम् ? । चन्द्रचूडामणेर्देवस्य किमन्यैश्चैडामणिभिरिति भावः ॥ ३५ ॥
इत्यद्भुतैकप्रभवः प्रभावात्प्रसिद्धनेपथ्यविधेर्विधाता ।
आत्मानमासन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श ॥३६॥
इतीति ॥ इतीत्थं प्रभावात्सामर्थ्यात्प्रसिद्धस्य नेपथ्यविधेर्वेशविधानस्य विधाता निर्माता । अत एवाद्भुतानामाश्चर्याणामेकप्रभवो मुख्यनिधिः स देव आसन्नगणेन पार्श्वस्थवर्गेण, प्रमथगणेनेत्यर्थः । उपनीत आनीते खड्गे निषक्त- प्रतिम संक्रान्तप्रतिबिम्बमात्मानं ददर्श । वीरपुरुषाणामेष आचारः ॥३६॥
स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।
तद्भक्तिसंक्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे ॥३७॥
पाठा०-१ अत्यद्भुत. २ नेपथ्यांवधिः.