पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २४-२९]
१५५
शिवागमनप्रतीक्षोत्कं हिमवदवस्थानम्

 तामिति ॥ कारयितव्येषु दक्षा कारयित्री, कर्मोपदेशकुशलेत्यर्थः । माता मेना । प्रतितिष्ठत्यस्यामिति प्रतिष्ठा । 'आतश्चोपसर्गे' (पा.३।१।१३६) इति कः। स्त्रियां टाप् । कुलस्य प्रतिष्ठां कुलालम्बनभूताम् , स्थितिकारिणीमित्यर्थः । तां गौरीम् । अर्चिताभ्यः पूजिताभ्यः कुलदेवताभ्यो गृहदेवताभ्यः प्रणमय्य प्रणामं कारयित्वा । ल्यपि लघुपूर्वात्' (पा. ६।४।५६) इति णेरयादेशः। सतीनां पतिव्रतानां पादग्रहणं पादाभिवन्दनं क्रमेणाकारयत्कारयामास । 'हक्रोरन्य- तरस्याम्' (पा. १।४।५३) इत्यणिकर्तुः कर्मत्वम् । अन्यत्र च 'गतिबुद्धि-' (पा. १|४|५२) इत्यादिना नमेरकर्मकन्वादणिकर्तुः कर्मत्वम् ॥ २७ ॥

 अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा ।
 तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिपोऽपि ॥२८॥

 अखण्डितमिति ॥ नम्रा प्रणतोमा ताभिः सतीभिः पत्युः शिवस्याखण्डित- मक्षतं प्रेम लभस्व प्रामुहीत्युच्यते स्म अभिहिता । 'लट् स्मे' (पा. ३।२।११८) इति भूतार्थे लट् । तस्य हरस्य । अर्धं शरीरस्यार्धशरीरम् । 'अर्धं नपुंसकम्' (पा. २।२।२) इति समासः । तद्भजतीत्यर्धशरीरभाजा तया गौर्या तु स्निग्धजना- शिषो बन्धुजनाशीर्वादा अपि पश्चात्कृता अधरीकृताः, ततोऽप्यधिकफललाभा- दिति भावः ॥ २८॥

 इच्छाविभूत्योरनुरूपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा ।
 सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥२९॥

 इच्छेति ॥ कृती कुशलः । सभायां साधुः सभ्यः । 'सभाया यः' (पा. ४।४।१०५) इति यप्रत्ययः । अद्रिर्हिमवान् । इच्छाविभूत्योरुत्साहैश्वर्ययोरनु- रूपं सदृशं यथा तथा तस्याः पार्वत्याः कृत्यं कर्तव्यमशेषयित्वाऽशेषं निःशेषं कृत्वा । समाप्येत्यर्थः । अशेषशब्दात् 'तत्करोति' (ग० २०४) इति ण्यन्तात्क्त्वा- प्रत्ययः, सुहृदास्थितायां बन्धुजनाक्रान्तायां सभायां संसदि वृषाङ्कस्य हरस्या- गमनं प्रतीक्षत इति तथोक्तः सन् । 'कर्मण्यण' (पा. ३।२।१) इत्यण् । तस्थौ स्थितः ॥ २९॥


पाठा०-१ असौ. २ लाभात्. ३ बन्धुजनं. ४ आगमनं प्रतीक्ष्य.