पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/२००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
[ सर्गः ७
कुमारसंभवे

 उमास्तनोद्भेदमनुप्रवृद्धी मनोरथो यः प्रथमं बभूव ।
 तमेव मेना दुहितुः कथंचिद्विवाहदीक्षातिलकं चकार ॥ २४ ॥

 उमेति ॥ उमायाः स्तनोद्नभेदमनु, स्तनोदयमारभ्येत्यर्थः । प्रवृद्धो वृद्धिं गतः, प्रागेवोत्पन्न इति भावः । यो मनोरथो वाञ्छा । 'वाञ्छा लिप्सा मनो- रथः' इत्यमरः । प्रथमं मनोरथान्तरात्प्राक्, अयमेव प्रथमो मनोरथ इत्यर्थः । बभूव । मेना दुहितुस्तमेव मनोरथभूतमेव । तद्विषये तदुपचारः। विवाह- दीक्षायां विवाहकृत्ये निलकं कथंचित्कृच्छ्रेण चकार, आनन्दबाष्पान्धतयेति शेषः । विवाहानन्तरभावित्वादन्येषामयमेव प्रथमो मनोरथ इति भावः ॥ युग्मकम् ॥ २४ ॥

 बबन्ध चास्त्राकुलद्रुष्टिरस्या: स्थानान्तरे कल्पितसंनिवेशम् ।
 धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णामयं कौतुकहस्तसूत्रम् ॥ २५ ॥

 बबन्धेति ॥ अस्याः पार्वत्या अस्त्रैरानन्दबाप्पराकुलदृष्टिरत एव स्थानान्तरे कल्पितः संनिवेशो निक्षेपो यस्य तत्, स्वस्थानादन्यत्र स्थापितमित्यर्थः । अत एव धात्र्या उपमातुरङ्गुलीभिः प्रतिसार्यमाणं स्वस्थानं प्राप्यमाणमूर्णामयं मेषादिलोमनिर्मितम् । 'ऊर्णा मेषादिलोन्नि स्यात्' इत्यमरः । कौतुकहस्तसूत्रं मङ्गलहस्तसूत्रम् । 'कौतुकं मङ्गले हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः। बबन्ध च, मेनेति शेषः । पूर्वोक्ततिलकक्रियासमुच्चयार्थश्चकारः ॥ २५ ॥

 क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्रियामा ।
 नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥२६॥

 क्षीरोदेति ॥ नवं नूतनं क्षौमं दुकूलं निवस्त आच्छादयतीति नवक्षौम- निवासिनी । वस्तेराच्छादनार्थाण्णिनिः । तथा नवं दर्पणमादधाना बिभ्रती सा गौरी सफेनपुञ्जा सडिण्डीरपझ्क्तिः । क्षीरमुदकं यस्य स क्षीरोदः क्षीरसमुद्रः । 'उदकस्योदः संज्ञायाम्' (पा. ६।३१५७) इत्युदादेशः। तस्य वेला तीरभूमिरिव । 'वेला काले च जलधेस्तीरे नीरविकारयोः' इति विश्वः । पर्याप्तचन्द्रा पूर्णचन्द्रा शरत्रियामा शरद्रात्रिरिव भूयो भूयिष्ठं बभौ चकासे ॥ २६ ॥

 तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ठां प्रणमय्य माता।
 अकारयत्कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥२७॥