पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
[ सर्गः ७
कुमारसंभवे

त्रीणीति शेषः । अहानि कृच्छ्रादगमयदहापयत् । कविराह-अमी भावा औत्सुक्यादयः संचारिणोऽवशमिन्द्रियपरतन्त्रमपरं पृथग्जनं कं न विप्रकुर्युर्न विकारं नयेयुः? यद्यस्माद्विभुं समर्थम् , जितेन्द्रियमिति यावत् । तं स्मरहरमपि स्पृशन्ति, विकुर्वन्तीत्यर्थः । अत्र विभुविकारसमर्थनादर्थादितरजनविकारः कैमुतिकन्यायादापततीत्यर्थापत्तिरलंकारः । तथा च सूत्रम्-'दण्डापूपिकयार्थान्तरपतनमर्थापत्तिः' इति । 'अर्थान्तरन्यास' इति केचित् तदुपेक्षणीयम् , युक्तिस्तु विस्तरभयान्नोच्यते । पुष्पिताग्रा वृत्तम्-'अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा' इति तल्लक्षणात् ॥ ९५ ॥

इति श्रीमन्महोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतः श्रीकालिदासकृतौ कुमारसंभवे महाकाव्ये
पार्वतीतपःफलोदयो नाम षष्ठः सर्गः ।

सप्तमः सर्गः ।

 अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।
 समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥ १॥

 अथेति ॥ अथ त्र्यहानन्तरं हिमवानोषधीनामधिपस्य चन्द्रस्य वृद्धौ, शुक्लपक्ष इत्यर्थः । शुभकर्मस्वापूर्यमाणपक्षस्य प्राशस्त्यात् । तिथौ च जामित्रं लग्नात्सप्तमं स्थानं तस्य गुणः शुद्धिः सा च ग्रहराहित्यं तेनान्वितायां सत्याम् । यद्यपि जामित्रशुद्धिर्लग्नधर्मस्तथापि तद्द्वारा तिथेरपि तथा व्यपदेशे न दोषः। समेतबन्धुर्युक्तबन्धुः सन् । सुताया दुहितुर्विवाहदीक्षा विवाहसंस्कारः सैव विधिः कर्म तमन्वतिष्ठत्कृतवान् ॥ १ ॥


टिप्प०-1 तथा चोक्तं शैवागमे-'ब्रह्मादयो जगति जीवगणास्तृणान्ताः सर्वे विमोहितधियः पशवः प्रदिष्टाः। तेषामभूदधिपतिः शिव एक एव तस्माद्विदुः पशुपतिं परमेश्वरं तम् ॥' इति । 2 तच्चोक्तमाश्वलायनगृह्यसूत्रे-'उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः' इति । 3 तत्तु 'विवाहे स्युः सर्वे मदनसदने नैव शुभदाः', 'सर्वे जामित्रसंस्था विदधति मरणम्' इति लग्नप्रकरणे सप्तमस्थानशुध्देरावश्यकत्वं वसिष्ठादिभिश्च प्रतिपादितम् ।