पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ८९-९५]
१४५
विवाहतिथिं निश्चित्य मुनीनां स्वस्थानगमनम्

अत एवाश्रूणि मुखे यस्यास्तामश्रुमुखीं तस्या अम्बिकाया मातरं तन्मातरं मेनां च । अन्या पूर्वं यस्यास्ति सोऽन्यपूर्वः । 'सर्वनाम्नो वृत्तिविषये पुंवद्भावः' (वा० १३७६) इति पूर्वपदस्य पुंवद्भावः। स न भवतीत्यनन्यपूर्वस्तस्यानन्यपूर्वस्य । सापहयदुःखमकुर्वत इत्यर्थः । वरस्य वोढुर्गुणैर्मृत्युंजयत्वादिभिर्विशोकां निर्दुःखामकरोत् ॥ ९२ ॥

  वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना ।
  ते त्र्यहादूर्ध्वमाख्याय चेरुश्चीरपरिग्रहाः ॥ ९३ ।।

 वैवाहिकीमिति ॥ चीरपरिग्रहा वल्कलमात्रवसनास्ते तपस्विनस्तत्क्षणं तस्मिन्नेव क्षणे हरबन्धुना हिमवता वैवाहिकीं विवाहयोग्यां तिथिं पृष्टाः केत्यनुयुक्ताः सन्तः। त्रयाणामह्नां समाहारस्त्र्यहः । 'तद्धितार्थोत्तरपदसमाहारे च' (पा. २।१।५१) इति समासः। 'राजाहःसखिभ्यष्टच्' (पा. ५।४।९१) इति टच्प्रत्ययः। द्विगुत्वादेकवचनम्। 'रात्राह्णाहाः पुंसि' (पा. २।४।२९) इति पुंलिङ्गता। तस्मात्त्र्यहादूर्ध्वमुपर्याख्याय 'चतुर्थेऽहनि विवाहः' इत्युक्त्वा चेरुश्चलिताः ॥९३॥

  ते हिमालयमामन्त्र्य पुनः प्राप्य च शूलिनम् ।
  सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥ ९४ ॥

 त इति ॥ ते मुनयो हिमालयमामन्त्र्य 'साधु यामः' इत्यापृच्छय पुनः शूलिनं हरं संकेतस्थानस्थं प्राप्य सिद्धं निष्पन्नमर्थं प्रयोजनमस्मै निवेद्य च ज्ञापयित्वा च तद्विसृष्टास्तेन शूलिना विसृष्टाः खमाकाशं प्रत्युद्ययुरुत्पेतुः । अत्र संक्षिप्तार्थाभिधानात्संक्षेपो नाम गुण उक्तः। तदुक्तम्-'संक्षिप्तार्थाभिधानं यत्संक्षेपः परिकीर्तितः' इति ॥ ९४ ।।

 भगवान्पशुपतिस्त्र्यहमात्रविलम्बमपि सोढुं न शशाक, तदौत्सुक्यादित्याह-

  पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः ।
  कमपरमवशं न विप्रकुयुर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥१५॥

 पशुपतिरिति ॥ उत्कं मनो यस्य स उत्कः । 'उत्क उन्मनाः' (पा.५।२।८०) इति निपातः । अद्रिसुतासमागमोत्कः पार्वतीपरिणयोत्सुकः पशुपतिरपि तानि,


पाठा०-१ चेलुः. २ प्रेक्ष्य. ३ तस्मै.

१० कु. सं.