पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
[ सर्गः ६
कुमारसंभवे

कल्पितासि निश्चितासि । 'रत्नादिस्तम्बपर्यन्तं सर्वं भिक्षा तपस्विनः' इति वचनादिति भावः । अर्थिनो याचितारो मुनयः । मया गृहमेधिनो गृहस्थस्य फलं प्राप्तम् । इह परत्र च तारकत्वात्पात्रे कन्यादानं गार्हस्थ्यस्य फलमित्यर्थः ॥१८॥

  एतावदुक्त्वा तनयामृषीनाह महीधरः।
  इयं नमति वः सवास्त्रिलोचनवधूरिति ॥ ८९ ॥

 एतावदिति ॥ महीधरो हिमवांस्तनयामेतावत्पूर्वोक्तमुक्त्वर्षीनाह । किमिति ? इयं त्रिलोचनवधूस्त्र्यम्बकपत्नी वः सर्वान्नमतीति । 'त्रिलोचनवधूः' इति सिद्धवदभिधानेनाविप्रतिपन्नं दानमिति सूचयति ॥ ८९ ॥

  ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः।
  आशीर्भिरेधयामासुः पुरःपाकाभिरम्बिकाम् ॥ ९० ॥

 ईप्सितार्थेति ॥ ते मुनयः ईप्सितार्थक्रिययेष्टार्थकरणेनोदारं महत् । 'उदारो दातृमहतोः' इत्यमरः। गिरेर्हिमवतो वचो वचनमभिनन्द्य साध्विति संस्तुत्याम्बिकामम्बाम् । पच्यत इति पाकः फलम् । पुरःपाकाभिः पुरस्कृतफलाभिराशीर्भिराशीर्वादैरेधयामासुः संवर्धयामासुः ॥ ९० ॥

  तां प्रणामादरस्रस्तजाम्बूनदवतंसकाम् ।
  अङ्कमारोपयामास लज्जमानामरुन्धती ॥ ९१ ॥

 तामिति ॥ प्रणामादरेण नमस्कारासक्त्या स्रस्ते जाम्बूनदे सुवर्णविकारे वतंसके कनककुण्डले यस्यास्तां लज्जमानां तामम्बिकामरुन्धत्यङ्कमारोपयामास । 'रुहः पोऽन्यतरस्याम्' (पा. ७।३।४३) इति पकारः ॥ ९१ ॥

  तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् ।
  वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥ ९२ ॥

 तदिति ॥ दुहितृस्नेहेन पुत्रिकाप्रेम्णा विक्लवां वियोक्ष्यत इति भीताम् ।


पाठा०-१ दुहितुः टिप्प०-1 गार्हस्थ्यसाफल्यं चोक्तमन्यत्र-गृहस्थः श्रद्धया दद्याद्भिक्षां भिक्षार्थिने सदा। भिक्षामददतः पुंसो गाईस्थ्यं निष्फलं भवेत्' इत्यादिना। 2 'आर्याप्यरुन्धती'

(६।३२) इति श्लोकयुग्मेनोक्तमत्रानुसंधेयम् ।