पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० ८०-८८]
१४३
हिमवता कन्यादानकल्पनम्

  एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
  लीलाकमलपत्राणि गणयामास पार्वती ।। ८४ ॥

 एवमिति ॥ देवर्षावङ्गिरस्येवंवादिनि सति पार्वती पितुः पार्श्वेऽधोमुखी सती, लज्जयेति शेषः । लीलाकमलपत्राणि गणयामास संचख्यौ, लज्जावशात्कमलदलगणनाव्याजेन हर्षं जुगोपेत्यर्थः । अनेनावाहित्थाख्यः संचारी भाव उक्तः । तदुक्तम्-'अवहित्था तु लजादेर्हर्षादाकारगोपनम्' इति ॥ ८४ ॥

  शैलः संपूर्णकामोऽपि मेनामुखमुदैक्षत ।
  प्रायेण गृहिणीनेत्राः कन्यार्थेषु कुटुम्बिनः ॥ ८५ ॥

 शैल इति ॥ शैलो हिमवान्संपूर्णकामोऽपि, दातुं कृतनिश्चयोऽपीत्यर्थः । मेनामुखमुदैक्षत, उचितोत्तरजिज्ञासयेति भावः । तथा हि-प्रायेण कुटुम्बिनो गृहस्थाः कन्यार्थेषु कन्याप्रयोजनेषु गृहिण्येव नेत्रं कार्यज्ञानकारणं येषां ते तथोक्ताः, कलत्रप्रधानवृत्तय इत्यर्थः ॥ ८५ ॥

  मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् ।
  भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥ ८६ ॥

 मेन इति ॥ मेनापि पत्युर्हिमालयस्य तत्सर्वमभीप्सितं कार्यं मेनेऽङ्गीचकार । तथा हि-पतिरेव व्रतं यासां ता भर्तुरिष्टेऽभीप्सिते न विद्यते व्यभिचारो यासां ता अव्यभिचारिण्यो भवन्ति, भर्तृचित्ताभिप्रायज्ञा भवन्तीति भावः ॥ ८६ ॥

  इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः ।
  आददे वचसामन्ते मङ्गलालंकृतां सुताम् ॥ ८७ ॥

 इदमिति ॥ स हिमवान्वचसामन्ते मुनिवाक्यावसानेऽत्र मुनिवाक्य इदमुत्तरश्लोके वक्ष्यमाणं दानमेव न्याय्यं न्यायादनपेतमुत्तरमिति बुद्ध्या चित्तेन विमृश्य विचिन्त्य मङ्गलं यथा तथालंकृतां मङ्गलालंकृतां सुतामाददे हस्ताभ्यां जग्राह ८७

  एहि विश्वात्मने वत्से ! भिक्षासि परिकल्पिता ।
  अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥ ८८ ॥

 एहीति ॥ हे वत्से पुत्रि! एह्यागच्छ । त्वं विश्वात्मने शिवाय भिक्षा परि-


पाठा०-१ कन्यार्थे हि. २ सद्यः.३ समीहितम्. ४ शर्वार्पणे. ५ भिक्षात्वम्.