पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० २४-३०]
१२७
हिमालयं प्रति कन्यायाचनानुज्ञापनम्

रिविप्रकृतैः शत्रुपीडितैर्देवैः प्रसूतिं पुत्रोत्पादनं प्रति याचितः । याचतेढुंहादित्वादप्रधाने कर्मणि क्तः ॥ २७ ॥

  अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने ।
  उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम् ॥ २८ ॥

 अत इति ॥ अतः सुरप्रार्थितत्वाद्धेतोरात्मने पुत्राय, पुत्रमुत्पादयितुमित्यर्थः । 'क्रियार्थोपपदस्य-' (पा.२।३।१४) इत्यादिना चतुर्थी । पार्वती यजमानो यष्टा । 'पूङ्यजोः शानन्' (पा.३।२।१२८) इति शानन्प्रत्ययः। हविर्भोक्तुरनेरुत्पत्तयेऽरणिमग्निमन्थनदारुविशेषमिव । 'निर्मन्थ्यदारुणि त्वरणिर्द्वयोः' इत्यमरः । आहर्तुं संग्रहीतुमिच्छामि ॥ २८ ॥

  तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः।
  विक्रियायै न कल्पन्ते संबन्धाः सदनुष्ठिताः ॥ २९ ॥

 तामिति ॥ अस्मदर्थेऽस्मत्प्रयोजने निमित्ते सति युष्माभिस्तां पार्वती हिमालयो हिमवान् या1चितव्यः । याचेर्दुहादित्वादप्रधाने कर्मणि तव्यप्रत्ययः । आवश्यकं चैतदित्याह-सद्भिः सत्पुरुषैरनुष्ठिताः संघटिताः संबन्धा यौनादयो विक्रियायै वैकल्योत्पादनाय न कल्पन्ते न पर्याप्नुवन्ति, न समर्था इत्यर्थः । अलमर्थयोगाच्चतुर्थी ॥ २९ ॥

 न चाहं लौल्यास्त्रियमिच्छामि किंतु देवोपकाराय । यद्येवं निखिलदेवेषु विद्यमानेषु हिमगिरेः शिलाभूतस्य कन्यापरिणयेच्छा कथमित्युक्ते स एव मे श्लाघ्यसंबन्धोऽत्रभवान्हिमवानित्याह-

  उन्नतेन स्थितिमता धुरमुद्वहता भुवः ।
  तेन योजितसंबन्धं वित्त मामप्यवञ्चितम् ॥ ३० ॥

 उन्नतेनेति ॥ उन्नतेन प्रांशुना प्रसिद्धेन च स्थितिमता प्रतिष्ठावता भुवो धुरं भारमुद्वहता, निर्वाहकेणेत्यर्थः । तेन हिमवता योजितः संघटितः संबन्धो


पाठा०-१ हिमाचलः. टिप्प.-1 अत्रेन्द्रयाचनमेव परिणयनेच्छायाः कारणत्वेनोपन्यस्तम्, नतु

देव्यास्तपः । यतः शिवपार्वती न कदाचिदपि विश्लिष्टौ, अत एव न समागमार्य देव्यास्तपः, किन्तु लोके स्त्रीधर्मशिक्षार्थ कुलीनया स्त्रिया सर्वात्मना स्वानुरूपः पतिर्लब्धम्य इति ।