स वा? किमादयः संदेहे । कतमः? ब्रह्मविष्णुमहेश्वरेष्वयं कतमो भागस्तदु- च्यतामित्यर्थः ॥ २३ ॥
ननु हर इत्येवं निश्चयात्कथमयं संशयस्तत्राह-
अथवा सुमहत्येषा प्रार्थना देव ! तिष्ठतु ।
चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम् ॥ २४ ॥
अथवेति ॥ अथवा, हे देव! सुमहती गुह्यतमस्वादतिदुर्लभेत्यर्थः । एषा प्रार्थना निजरूपनिरूपणप्रार्थना तिष्ठतु। किंतु चिन्तितेन चिन्तिता वोपस्थिताश्चिन्तितोपस्थितास्तान्नोऽस्मांस्तावच्छाध्याज्ञापय किं करवाम । प्रार्थनायां लोट् । अलमप्रस्तुतेन, प्रस्तुते तावन्नियुङ्क्ष्वेत्यर्थः ॥ २४ ॥
अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः ।
उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ॥ २५ ॥
अथेति ॥ अथ परमेश्वरो मौलिगतस्येन्दोस्तन्वीमल्पाम् , कलामात्रत्वादिति भावः । प्रभा कान्ति विशदैः शुभैर्दशनांशुभिरुपचिन्वन्वर्धयन्प्रत्याह, प्रत्युवाचेत्यर्थः ॥ २५॥
विदितं वो यथा स्वाथा न मे काश्चित्प्रवृत्तयः ।
ननु मूर्तिभिरष्टाभिरित्थंभूतोऽस्मि सूचितः ॥ २६ ॥
विदितमिति ॥ हे मुनयः! काश्चिदपि मे प्रवृत्तयो व्यापाराः स्वार्था न भवन्ति यथा तथा वो युष्माकं विदितम् । वाक्यार्थः कर्म । बुद्ध्यर्थत्वाद्वर्तमाने क्तः, तद्योगात्षष्ठी। प्रवृत्तिपारार्थे प्रमाणमाह-अ१ष्टाभिमूर्तिभिरित्थंभूतं इमं प्रकारं परार्थप्रवृत्तिरूपं प्राप्तः । 'भू प्राप्तौ' इति धातोः कर्तरि क्तः । सूचितो ज्ञापितोऽस्मि, मत्स्वमूर्तिचेष्टया स्वपारार्थ्यमनुमेयमित्यर्थः ॥ २६ ॥
सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः ।
अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ॥ २७ ॥
सोऽहमिति ॥ स परार्थप्रवृत्तिरहं तृष्णातुरश्चातकैर्वृष्टिं विद्युत्वान्मेघ इवा-
टिप्प०-1 अष्टमूर्तयस्तु- भूमिरापोऽनलो वायुरात्मा व्योम रविः शशी । इतीमाः
सर्वलोकानां प्रत्यक्षाः शिवमूर्तयः' इत्युक्ताः।