पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
[ सर्गः ६
कुमारसंभवे

नपुंसकैकवद्भावः, अनपुंसकेनेति नियमात् । फलं कार्यमद्य नोऽस्माकं विपक्कम् सुनिष्पन्नमित्यर्थः । कर्मणि क्तः। 'पचो वः' (पा.८।२।५२) इति निष्ठातस्य वत्वम् ॥ १६ ॥

 तदेव फलमाह-

  यदध्यक्षेण जगतां वयमारोपितास्त्वया ।
  मनोरथस्याविषयं मनोविषयमात्मनः ॥ १७॥

 यदिति ॥ यद्यस्मात्कारणाज्जगतामध्यक्षेणाधिपेन त्वया वयं मनोरथस्याभिलाषस्याविषयमगोचरमात्मनः स्वस्य मनोविषयं मनोदेशमारोपिताः प्रापिताः,तस्माद्विपक्वं फलमिति पूर्वेण संबन्धः । सकलजगदन्वेष्टव्यस्य भगवतोऽपि वयमन्वेष्या भवाम इति परमोत्कृष्टा वयमिति भावः ॥ १७ ॥

 तदेवोपपादयति-

  यस्य चेतसि वर्तेथाः स तावत्कृतिनां वरः ।
  किं पुनब्रह्मयोनेर्यस्तव चेतसि वर्तते ॥१८॥

 यस्येति ॥ यस्य जनस्य चेतसि वर्तेथाः, येन स्मर्यस इत्यर्थः । स तावत्स एवं कृतिनां कृतकृत्यानां वरः श्रेष्ठः । ब्रह्मणो वेदस्य वेधसो वा योनेः कारणस्य,यद्वा वेदप्रमाणकस्य तव चेतसि यो वर्तते, त्वया स्मर्यत इत्यर्थः । किं पुनः,स कृतिनां वर इति किमु वक्तव्यमित्यर्थः ॥ १८ ॥

  सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् ।
  अद्य तूच्चैस्तरंताभ्यां स्मरणानुग्रहात्तव ॥ १९ ॥

 सत्यमिति ॥ अर्कात्सूर्याच्च सोमाच्चन्द्राच्च परमुच्चैः पदं स्थानमध्यास्महे तिष्टामः, वयमिति शेपः । सत्यम् । 'अधिशीङ्स्थासां कर्म' (पा. १।४।४६) इति कर्मत्वम् । अद्य तु तव कर्तुः। स्मरणमेवानुग्रहः प्रसादस्तस्माद्धेतोः । ताभ्यामर्केन्दुभ्यामुच्चैस्तरमत्युचं पदम् ,अध्यास्महे इति संबन्धः । उच्चैस्तरमिति द्रव्यप्रकर्षत्वान्नामुप्रत्ययः ॥ १९ ॥


पाठा०-१ अप्यपथम्. २ विश्वयोनेः. ३ तस्मात्.