पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
श्लो० १०-१६]
१२३
मुनिभिरुपस्थाय शिवस्तवनम्

  तद्दर्शनादभृच्छंभोर्भूयान्दारार्थमादरः।
  क्रियाणां खलु धर्म्याणां सत्पत्न्यो मूलकारणम् ॥ १३ ॥

 तदिति ॥ तद्दर्शनादरुन्धतीदर्शनाच्छंभोरार्थं परिग्रहार्थमादरो भूयान्बहुसरोऽभूत् । ननु दाराः कुत्रोपयुज्यन्त इत्यत्राह- धर्म्याणां धर्मादनपेतानाम् । 'धर्मपथ्यर्थन्यायादनपेते' (पा. ४।४।९२) इति यत्प्रत्ययः । क्रियाणामिज्यादीनां सत्यः पतिव्रताः पत्न्यः सत्पत्न्यः 'पत्युनों यज्ञसंयोगे' (पा. ४।१।३३) इति ङीप् , नकारश्च । मूलकारणं खलु ॥ १३ ॥

  धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति ।
  पूर्वापराधभीतस्य कामस्योच्छ्सिे तं मनः ।। १४ ॥

 धर्मेणेति ॥ धर्मेण दारसंजिवृक्षालक्षणेनापि कर्त्रा । शर्व ईश्वरे पार्वतीं प्रति पदं कारिते सति । 'हृक्रोरन्यतरस्याम्' (पा.१।४।५३) इति शर्वस्याणिकर्तुः कर्मत्वम् । पूर्वापराधभीतस्य कामस्थ मन उच्छ्वसितम् । पुनरुज्जीवनावकाशो भवतीति सप्रत्याशमभूदित्यर्थः ॥ १४ ॥

  अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।
  इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः ।। १५॥

 अथेति ॥ अथानूचानाः साङ्गवेदप्रवक्तारः । 'अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः' इत्यमरः । 'उपेयिवाननाश्वाननूचानश्च' (पा. ३।२।१०९) इति निपातः । प्रीत्या कण्टकिताः पुलकितास्त्वचो येषां ते तथोक्ताः। ते सर्वे मुनयो जगद्गुरुं हरं मानयित्वा पूजयित्वेदं वक्ष्यमाणमूचुः ॥ १५ ॥

  यद्ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् ।
  यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः॥१६॥

 यदिति ॥ ब्रह्म वेदः । वेदस्तत्त्वं तपो ब्रह्म' इत्यमरः । सम्यङ्नियमपूर्वकमान्नातमधीतमिति यत् । अग्नौ विधिना हुतमिति यत् । तपश्चान्द्रायणादिकं सप्तमिति च यत्तस्याध्ययनेज्यातपोरूपस्य, आश्रमात्रयसाध्यस्य कृत्स्नस्यापि कर्मण इत्यर्थः । समुदायाभिप्रायकमेकवचनम् ; अन्यथाऽऽवृत्त्यान्वयप्रसङ्गात् । न च


पाठा०-१ भूयः. २ साधनम्. ३ प्रथमे. ४ प्रणिपत्य.