सृष्टेः करणाद्धेतोरित्यर्थः । पुराविद्भिः पुराणवेदिभिर्व्यासादिभिः पुरातना धातार इति कीर्तिताः । 'विश्वयोनेः' इति संबन्धमात्रे षष्टी, 'तस्यानन्तरम्' इति भाष्ये दर्शनात् । अपादानत्वविवक्षायां तु पञ्चमी । अयमदःशब्दो यथाशब्दावृत्तादनन्तरस्येति शाबरभाष्ये दर्शनात् । तथा 'अथातो धर्मजिज्ञासा' (जै. सू. १।१।१) इत्यत्र 'अथ वेदाध्ययनादनन्तरम्' इत्याचार्याः। कविश्च 'पुराणपत्रापगमादनन्तरम्' इति । एवमन्यत्रापि द्रष्टव्यम् ॥९॥
प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् ।
तपसामुपभुञ्जानाः फलान्यपि तपखिनः ॥१०॥
प्राक्तनानामिति ॥ प्राक्तनानां जन्मान्तरभवानां विशुद्धानां निर्मलानां परिपाकं फलदानोन्मुखत्वमुपेयुषां गतानां तपसां फलान्युपभुजाना अपि तपस्विनस्तपोनिष्ठाः। प्रारब्धभोगिनो निस्पृहाश्चेति भावः । कुलकम् ॥ १०॥
तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।
साक्षादिव तपःसिद्धिर्बभासे बह्वरुन्धती ॥ ११ ॥
तेषामिति ॥ तेषामृषीणां मध्यगता साध्वी पतिव्रता । अत एव पत्युर्वसिष्ठस्य पादयोर्पितेक्षणा निविष्टदृष्टिररुन्धती साक्षात्प्रत्यक्षा तपःसिद्धिरिव तेषामेवेति शेषः । तेषां मध्यगतेति लिङ्गवचनादिसाम्यादियमुपमा । बहु भूयिष्ठं बभासे भाति स्म ॥११॥
तामगौरवभेदेन मुनींश्चापश्यदीश्वरः ।
स्त्री पुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥ १२ ॥
तामिति ।। ईश्वरो भगवांस्तामरुन्धतीं मुनींश्चागौरवभेदेन समानप्रतिपत्त्यापश्यदृष्टवान् । न चायमविवेक इत्याह-हि यस्मात् स्त्रीपुमांश्चेत्येषाऽनास्था स्त्रीपुंसभेदो न विवक्षितः । किंतु सतां साधूनां वृत्तं चरित्रमेव महितं पूज्यम् । 'गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः' (उत्तर. ४।११) इति भावः ॥१२॥
टिप्प॰ - अयं श्लोकः “प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे बने तोये काच्च-
मपश्चरेणुकपिशे पुण्याभिषेकक्रिया। ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो यत्काक्षंति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी' (शाकु. ७।१२) इति श्लोकेन साम्यं बिभतिं ।