यदुक्तं 'चपुर्विरूपाक्षमलक्ष्यजन्मता' (५/७२ ) इति तत्रोत्तरमाह-
विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।
यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ८१
विवक्षतेति ॥ च्युतात्मना नष्टस्वभावेनात एव दोषं दूषणं विवक्षता वक्तुमिच्छतापि स्वयेशं प्रति एकम् 'अलक्ष्यजन्मता' इत्येतदेकम् , वच इत्यर्थः । साधु भाषितं सम्यगुक्तम् । कुतः ? यमीश्वरमात्नभुवोऽपि ब्रह्मणोऽपि । 'ब्रह्मा- रमभूः सुरज्येष्ठः' इत्यमरः । कारणमामनन्त्युदाहरन्ति, विद्वांस इति शेषः । 'पाघ्राध्मास्थाम्नादाण् -' (पा. ७१३:७८) इत्यादिना मनादेशः । स ईश्वरः कथं लक्ष्यप्रभवो लक्ष्यजन्मा भविष्यति ? अनादिनिधनस्य भगवतः कारणशङ्काकल- ङ्कश्च नान्विष्यत इत्यर्थः ॥ ८ ॥
अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥८२॥
अलमिति ॥ अथवा विवादेन कलहेनालम् । त्वया यथा येन प्रकारेण स ईश्वरः श्रुतोऽशेषं कात्स्न्य्रेन तथाविधस्तावत्प्रकार एवास्तु । मम मनस्त्वत्रेश्वरे भावः शृङ्गार एकोऽद्वितीयो रस आस्वादो यस्य तत्तथा स्थितम् । तथा हि- कामवृत्तिः स्वेच्छाव्यवहारी वचनीयमस्थानसङ्गापवादं नेक्षते न विचारयति; न हि स्वेच्छासंचारिणो लोकापवादाद्विभ्यतीति भावः ॥ ८२ ॥
निवार्यतामालि! किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक्८३
निवार्यतामिति ॥ हे आलि सखि ! 'आलिः सखी वयस्या च' इत्यमरः । स्फुरितोत्तराधरः स्फुरणभूयिष्ठोष्टः अयं बटुर्माणवकः पुनः किमपि विवक्षुर्वक्तु- मिच्छुः । ब्रुवः समन्तादुप्रत्ययः । निवार्यताम् । तर्हि वक्तुमेव कथं न ददासी- त्याह-तथा हि-यो महतः पूज्यानपभाषतंऽपवदति न केवलं स पापभाग्भ- वति । किंतु तस्मादपभाषमाणात्पुरुषाधः शृणॉति सोऽपि पापभाक् । भवतीति शेषः । अत्र स्मृतिः (मनु. २।२००)-'गुरोः प्राप्तः परीवादो न श्रोतव्यः कथंचन । सत्र कर्णौ पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥' इति ॥ ८३ ॥
पाठा०-१ श्रुतम् . २ महतां विभाषते.