पृष्ठम्:कुमारसम्भवम् (निर्णयसागरसंस्करणम्-१९५५).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
[ सर्गः ५
कुमारसंभवे

 विभूषणेति ॥ विश्वं मूर्तिर्यस्येति विश्वमूर्तेरष्टमूर्तेः शिवस्य वपुः शरीरं भूषणैरुदासत इति भूषणोद्भासि स्यात् , पिनद्धभोग्यामुक्तभुजंगमं वा स्यात् । पिनद्धेति नह्यतेरपिपूर्वात् कर्मणि क्तः । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यकारलोपः । गजाजिनालम्बि स्यात् , अथवा दुकूलधारि स्यात् , कपालम- स्यास्तीति कपालि ब्रह्मशिरःकपालशेखरं वा स्यात् , इन्दुशेखरं वा स्यात् , नाव- धार्यते न निर्धार्यते, सर्वं संभवतीत्यर्थः । एतेन 'स्वमेव तावत्' (५।६७) इति श्लोकोक्तं प्रत्युक्तमिति ज्ञेयम् ॥ ७८ ॥

 'अयुक्तरूपं किमतः परं वद' (५।६९) इति श्लोकोक्तं प्रत्याह-

 तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।
 तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसां ७९

 तदिति ॥ तस्य शिवस्याङ्गं तस्य संसर्गमवाप्यासाद्य चिताभस्मैव रजो विशुद्धये कल्पते, अलं पर्यामोतीत्यर्थः । अलमर्थयोगात् 'नमःस्वस्तिस्वाहा-' (पा.२।३।१६) इत्यादिना चतुर्थी । ध्रुवं शोधकत्वम् , प्रमाणसिद्धमित्यर्थः । प्रमा- णमेवाह -तथा हि प्रसिद्धमेवेत्यर्थः । नृत्ये ताण्डवे योऽभिनयोऽर्थव्यञ्जक- चेष्टाविशेषः स एव क्रिया तया निमित्तेन च्युतं पतितम् , चिताभस्मरज इति शेषः । अम्बरौकसां देवानां मौलिभिर्विलिप्यते ध्रियते, अशुद्धं चेत्कथमिन्द्रा- दिभिर्धियेतेत्यर्थापत्तिरनुमानं वा प्रमाणमित्यर्थः ॥ ७९ ॥

 यदुक्तम् 'दिगम्बरत्वेन निवेदितं वसु' (५।७२), 'इयं च तेऽन्या पुरतो विडम्बना' (५१७०), इत्यादि च तत्रोत्तरमाह-

 असंपदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा।
 करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥८॥

 असंपद इति ॥ प्रभिन्नो मदस्त्रावी दिग्वारणो दिग्गजो वाहनं यस्य सः, ऐरावतेनोढ इत्यर्थः । वृषा देवेन्द्रोऽसंपदो दरिद्रस्य वृषेण गच्छतो वृषभारूढस्य तस्येश्वरस्य पादौ मौलिना मुकुटेनोपगम्य, प्रणम्येत्यर्थः । विनिद्राणां विकसि- तानां मन्दाराणां कल्पतरुकुसुमानां रजोभिः परागैररुणा अङ्गुलयो ययोस्तौ तथोक्तौ करोति । दिग्गजारोहिणामिन्द्रादीनामपि वन्द्यस्येन्दुमौले: किं संपदा ? वृषारोहणे वा को दोष इत्यर्थः ॥ ८॥


पाठा०‌--१ संस्पर्शम. २ विलुप्यते.